________________
(२३७ )
हित्वा तृतीयकोपादिचतुष्कं ताः प्रमादिनः । शोकस्थिराशुभासातायशोऽरतिविवर्जिताः ॥ ८७ ॥ आहारकद्वयाः शेषाः स्वीकुर्वन्त्यप्रमत्तकाः । शान्तान्तेषु परेष्वोघो द्रष्टव्योऽपूर्वकादिषु ॥ ८८ ॥ प्रमत्ताः ६२ । अप्रमत्ताः ५८ ।
इति भव्यसम्यत्क्वमार्गणा ।
ओघोक्ताः संज्ञिनां मिथ्यादृष्टियातास्त्वसंज्ञिनाम् । एतेषां सासनस्थानां ज्ञातव्याः सासनस्थिताः ॥ ८९ ॥
इति संज्ञिमार्गणा।
अस्त्याहारकेष्वोघः कर्मप्रकृतिबंधने । ज्ञेयः कार्मणयोगस्थो अंगोनाहारकेषु तु ॥ ९० ॥
इति आहारकमार्गणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org