Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 243
________________ (२३४) सकषायचतुष्काणामोघभंगः, ततः सलोभकषायाणां सूक्ष्मसांपरायणामोघः, ततोऽकषायाणां शांतक्षीणसयोगानामोघः । इति कषायमार्गणा । अज्ञानं ज्ञानमप्यस्ति गुणे यद्यत्र तत्त्वतः।। तत्तत्र विदुषा बुद्धा बंधस्योघो नियोज्यताम् ।। ६३ ॥ तत्रौधेनाज्ञानत्रये ११७ । मिथ्यादृष्टौ ११७। सासने १०१ । ततोऽसंयतादीनां मत्यादिज्ञानत्रये नवानामोघभंगः, ततो मनःपर्यये प्रमत्तादीनां सप्तानामोघः, ततः केवले सयोगायोगयोरोघः। इति ज्ञानमार्गणा। ओघः सामायिके वृत्ते छेदोपस्थापनेऽपि च । प्रमत्तादिचतुष्केऽस्ति परिहारेपे चाद्ययोः ॥ ६४ ॥ सूक्ष्मे सूक्ष्मकषायोऽसौ यथाख्याते चतुर्वतः । देशे देशचरित्रेऽसौ चतुष्केऽप्यस्त्यसंयमे ॥६५॥ इति संयममार्गणा । चक्षुषोऽचक्षुषो दृष्टावोघो द्वादशके मतः । गुणानामत्रतादीनां नवकेऽवधिदर्शने ॥६६॥ सयोगायोगयोरोघो ज्ञेयः केवलदर्शने । मार्गणा दर्शनस्योक्ता लेश्यानां तां वदाम्यतः ॥ ६७ ॥ आद्यलेश्यात्रयालीढा विमुच्याहारकद्वयम् । एतास्तीर्थकरेणोनाः स्वीकुर्वन्ति कुदृष्टयः ॥ ६८ ॥ कृष्णनीलकापोतलेश्यासामान्येन ११८ । कुदृष्टयः ११७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250