________________
( २२५) स्वस्थानंतामेयसौख्याब्धिमना__ स्ते नः सद्यः सिद्धये संतु सिद्धाः ॥ ७४ ॥ यस्मात्सर्व कृत्रिम नाशि दृष्टं
संत्यज्यैकं पावनं सिद्धिलाभम् । तस्मादन्यत्सद्भिरत्यस्य कार्य
कार्यो यत्नः सर्वदा सिद्धिलब्ध्यै ॥ ७५ ॥ कल्मषाष्टकमयास्य सर्वथा
ये गुणाष्टकमवापुरूर्जितम् । जातिमृत्युभवदुःखवर्जिता
स्ते वसंतु मम निर्वृता हृदि ॥ ७६ ॥ दृष्टिवादमकराकरादिदं
प्राभृतैकलवरत्नमुद्धृतम् । ज्ञानदर्शनचरित्रवृहक - गृह्यतां शिवनिवासकांक्षिभिः ॥ ७७ ॥ बंधं पाकं कर्मणां सत्त्वमेत
द्वक्तुं शक्तं दृष्टिवादप्रणीतम् । शास्त्रं ज्ञात्वाऽभ्यस्यते येन नित्यं .
सम्यक् तेन ज्ञायते कर्मतत्त्वम् ॥ ७८ ॥ कर्मबंधगुणजीवमार्गणा
स्थानयोजनपरायणोऽस्ति यः । सत्तपोदलितकर्मसंहतिः
- सोऽस्तु तेऽमितगतिः शिवास्पदम् ॥ ७९ ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहे सप्ततिः समाप्ता।
१ त्यक्त्वा । २ त्यक्त्वा । ३ दृष्टिवादो द्वादशांगः स एव मकराकरः समुद्रस्तस्मात् ।
१५पं. सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org