________________
( ६८ )
८ । भयस्य ८, ८ | मिथ्यात्वस्य १, १ । पुंवेदस्य ९९ ॥ स्थावरस्य १, १ । आतपस्य १, १ । साधारणस्य १, १ ॥ अपर्याप्तस्य १, १ | सूक्ष्मस्य १, १ । जातिचतुष्टयस्य १, १ । यद्यपि सासने जातिचतुष्टयस्योदयस्तथापि न दोषस्तस्य मिथ्यादृष्टिसदृशत्वात् । नरानुपूर्व्याः ४, ४ । अनंतानुबंधिचतुष्टयस्य २, २ । अप्रत्याख्यानचतुष्टयस्य ४, ४ प्रत्याख्यानचतुष्कस्य ५, ५ । क्रोधसंज्वलनस्य ९, ९ । प्रकृतीनां तु शेषाणामेकाशीतेः शरीरिणः । पूर्व विच्छिद्यते वंधः पश्चात्पाकस्य विच्छिदा ॥ ८३ ॥ वेद्यांत यदृक ज्ञानरोधगोत्रभवायशः । शोकारत्थंतलोभां स्त्रीषंडतीर्थ विधायिताः ॥ ८४॥ श्वभ्रतिर्यङ्नरायूंषि श्वभ्रतिर्यङ्क्षरीतयः । तिर्यक् श्वभ्रानुपूर्व्यां द्वे पंचाक्षौदारिकद्वये ॥ ८५ ॥ वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् । पटु संस्थान संहत्योरुद्योतो द्वे नभोगती ॥ ८६ ॥ स्थिरादिपंचयुग्मानि निर्मित्तैजसकार्मणे । एकाशीतेः पुरा बंधः पश्चात्पाको विनश्यति ॥ ८७ ॥
अत्रप्रथमतः पाकोच्छेदगणनांकसंख्या, पश्चात्तु बंधच्छेदगुणस्थानांक संख्या द्रष्टव्या
पंचानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां, पंचानामन्तरायाणां - पाकच्छेदः १२, बंधच्छेदः १० | यशःकीयुच्चगोत्रयोः १४, १० । स्त्यानगृद्धित्रयस्य ६, २ । निद्राप्रच
१ मान माया संज्वलनस्यापि ९, ९ । २ संचलनलोभः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org