Book Title: Oghniryukti Author(s): Dronacharya, Publisher: Agamoday Samiti View full book textPage 5
________________ कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाघारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथश्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह अरहंते वंदित्ता चउदसपुची तहेव दसपुची । एक्कारसंगसुत्तत्थधारए सबसाहू य ॥१॥ ओहेण उ निज्जुत्तिं वुच्छं चरणकरणाणुओगाओ। अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाण॥२॥जुयलं। अत्राह-किमर्थ शास्त्रारम्भे मङ्गलं क्रियते ? इति, उच्यते, विघ्नविनायकोपशमनार्थ, तथा चोक्तम्- "श्रेयांसि बहुविनानि, भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं, तच्च नामादिभेदेन चतुर्धा, तत्र नामस्थापने सुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकं च, भावमङ्गलमहदादिनमस्कारः, तच्चैकान्तिकमात्यन्तिकं च । तदनेन संबन्धेनायातस्यास्य व्याख्या क्रियते-सा च लक्षणान्विता नालक्षणेति, लक्षणं च संहितादि, “संहिता च पदं चैव” इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, सा चेयम्-'अरहंते. वंदित्ता' इत्यादिका । अधुना पदानि प्रतन्यन्ते-अर्हतो वन्दित्वा * चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथा-IA सूत्रपदान्युच्यन्ते-ओघेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महााम् अनुग्रहार्थ सुविहितानाम् , एतावन्ति पदानि । अधुना पदार्थः–'अरहते' इत्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्ता इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति वन्दित्वा, किम् ?–'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमहत एव वन्दित्वा ?, नेत्याह-'चतुर्दशपूर्विणश्च' चतुर्दश SAGARCANCARE Jain Educati o nal For Personal & Private Use Only ainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 456