SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाघारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथश्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह अरहंते वंदित्ता चउदसपुची तहेव दसपुची । एक्कारसंगसुत्तत्थधारए सबसाहू य ॥१॥ ओहेण उ निज्जुत्तिं वुच्छं चरणकरणाणुओगाओ। अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाण॥२॥जुयलं। अत्राह-किमर्थ शास्त्रारम्भे मङ्गलं क्रियते ? इति, उच्यते, विघ्नविनायकोपशमनार्थ, तथा चोक्तम्- "श्रेयांसि बहुविनानि, भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं, तच्च नामादिभेदेन चतुर्धा, तत्र नामस्थापने सुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकं च, भावमङ्गलमहदादिनमस्कारः, तच्चैकान्तिकमात्यन्तिकं च । तदनेन संबन्धेनायातस्यास्य व्याख्या क्रियते-सा च लक्षणान्विता नालक्षणेति, लक्षणं च संहितादि, “संहिता च पदं चैव” इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, सा चेयम्-'अरहंते. वंदित्ता' इत्यादिका । अधुना पदानि प्रतन्यन्ते-अर्हतो वन्दित्वा * चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथा-IA सूत्रपदान्युच्यन्ते-ओघेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महााम् अनुग्रहार्थ सुविहितानाम् , एतावन्ति पदानि । अधुना पदार्थः–'अरहते' इत्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्ता इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति वन्दित्वा, किम् ?–'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमहत एव वन्दित्वा ?, नेत्याह-'चतुर्दशपूर्विणश्च' चतुर्दश SAGARCANCARE Jain Educati o nal For Personal & Private Use Only ainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy