Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 6
________________ मङ्गलादि नि.१-२ श्रीओघ- पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांश्च, वन्दित्वेति सर्वत्र क्रिया मीलनीया, किं तानेव ?, नेत्याह-'तथैव दशपूर्विनियुक्तिः भणश्च' 'तथे ति आगमोक्तेन प्रकारेण एवेति क्रमनियमप्रतिपादनार्थः अनेनैव क्रमेण दशपूर्विण इति, दश पूर्वाणि विद्यन्ते द्रोणीया येषां ते दशपूर्विणः, न केवलं तानेव, 'एकादशाङ्गसूत्रार्थधारकान्' एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशावृत्तिः दङ्गानां सूत्राी एकादशाङ्गसूत्रार्थों तौ धारयन्ति ये तान् एकादशाङ्गसूत्रार्थधारकान् । 'सर्वसाधूंश्च' इति सर्व साधयन्तीति है ॥२॥ सर्वसाधवः अथवा सर्वे च ते साधवश्च सर्वसाधवः तान् सर्वसाधूंश्च वन्दित्वा, चशब्दः समुच्चये, अथवाऽनुक्तसमुच्चये, यच्च समुच्चितं तत्प्रतिपादयिष्यामः । पदविग्रहस्तु यानि समासभाजि पदानि तेषां प्रतिपादितः। अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह परः-सर्वमेवेदं गाथासूत्रं न घटते, कथम् ?, इह 'ओघनियुक्तिं वक्ष्ये' इति प्रतिज्ञा, भसा च प्रथममेव नमस्कारसूत्रे न संपादिता, यदुत नमस्कारोऽपि संक्षेपेणैवाभिधातव्यः, न चासौ संक्षेपेण प्रतिपादितः, | अपि त्वहन्नमस्कार एव केवलः संक्षेपनमस्कारो भवति, स एव कर्तव्यो, न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं 8 दतर्हि एकैकस्या व्यक्तेनमस्कारः कर्तव्यः, किं दशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैव शेषाणां नमस्कारो भवि-16 प्यतीति, अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वैकदेशधराणामिति, अत्रोच्यते, यदित्थं चोद्यं क्रियते तदविज्ञायैव परमार्थ, कथम् ?, यदुक्तं तावत् संक्षेपग्रन्थोऽयं तदत्र नमस्कारोऽपि संक्षेपेण कर्तव्य इति, अत्र तावत्प्रतिविधीयते-येनैव संक्षेपग्रन्थोऽयं तेनैव लक्षणेनेत्थं नमस्कारः कृतः, तथाहि-सामान्येनार्हतां नमस्कारोऽभिहितः न विशेषेण एकैकस्य तीर्थकरस्य, तथा भगवतामुपकारित्वान्नमस्कारः क्रियते, येऽप्यमी चतुर्दशपूर्व CR Jain Education c anal For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 456