Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ धरास्तेऽप्युपकारका एव, कथमिति चेत्, अर्थद्वारेण तीर्थकरा उपकारकाः, सूत्रतस्तु चतुर्दशपूर्वधरा गणधराः, यत उक्तम्"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणा ।” इत्यादि, अत उपकारकास्त इति, अथवा द्विधोपकारः-व्यवहितोऽव्यवहितश्च, तत्र भगवन्तोऽर्हन्तः व्यवहितोपकारकत्वेन व्यवस्थिताः, चतुर्दशपूर्वधरास्त्वस्यानन्तरोपकारकत्वेन, अतश्चतुर्दशपूर्वधरनमस्कारः कृतः, सर्वाश्चतुर्दशपूर्वधरव्यक्तय आगृहीता अनेन नमस्कारेणेति, यच्चोक्तम्-चतुर्दशपूर्विनमस्कारेणैव शेषाणां दशपूर्व्यादीनां नमस्कारो भविष्यति किं दशपूर्व्यादिनमस्कारेणेति !, अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वैकदेशधराणामिति, एतदप्यसाधु,कथम्?, यतो दशपूर्वधरा अपि शासनस्योपकारका उपाङ्गादीनां संग्रहण्युपरचनेन हेतुना,अथवाऽस्यामवसर्पिण्यां चतुर्दशपूर्व्यनन्तरं दशपूर्वधराएव संजातानत्रयोदशपूर्वधरा द्वादशपूर्वधरा एकादशपूर्वधरा वा इत्यस्यार्थस्य प्रतिपादनार्थ चतुर्दशपूर्वधरानन्तरं दशपूर्विनमस्कारोऽभिहितः, अथवाऽन्यत्प्रयोजनम्-अर्थतस्तीर्थकरप्रणीतं सूत्रतो गणधरोपनिबद्धं चतुर्दशपूर्वधरोपनिबद्धं दशपूर्वधरोपनिबद्धं प्रत्येः कबुद्धोपनिबद्धं च प्रमाणभूतं सूत्रं भवतीत्यस्य प्रतिपादनार्थ दशपूर्विनमस्कारः कृतः, तथा चोक्तम्- "अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धदृब्धं च । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥ १॥” इति, अथवाऽन्यत्प्रयोजनम्-चतुर्दशपूर्विणो दशपूर्विणश्च नियमेनैव सम्यग्दृष्टय इति प्रदर्शनार्थ तन्नमस्कारः, अथवा यदुक्तं 'त्रयोदशपूर्वधरादीनामेकैकहान्या तावन्नमस्कारो वाच्यो यावदेकदेशपूर्वधराणामिति, सैव हानिरिन्थमुक्ता यदुत प्रभूतहान्या हानिर्वाच्या, सा च त्र्यन्तरे १ अर्थ भाषतेऽर्हन सूत्रं अनन्ति गणधरा निपुणं । Jain Education A onal For Personal & Private Use Only Thelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 456