Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ५ ॥
Jain Education
न्तभेदपक्षे एकार्थिकानि युज्यन्ते, कथम् ?, यस्य ह्येकान्तेनैव सर्वे भावाः सर्वथा भिन्ना वर्तन्ते तस्य हि यथा घटशब्दात्पट| शब्दो भिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य कुटशब्द एकार्थिको युज्यते ?, एकार्थिकत्वं हि कथञ्चिद्भेदे भवतीति एवमेकान्ताभेदवादिनोऽपि न युज्यन्ते एकार्थिकानि, कथम् ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकार्थिको न भवति एवं कुटादयोऽपि न युज्यन्ते, अभिन्नत्वात् इत्यलं चसूर्येति ॥ १ ॥ अधुना चरणपदव्याख्यानार्थमिदं गाथासूत्रमाह
वयें समधम्म संजैम वेयवच्चं च वंभर्गुत्तीओ । नाणाइतियं तवें कोहनिग्गहाई चरणमेयं ॥ २ ॥ ( भा० )
व्याख्या - भवतीति क्रियाऽनुवर्तते, व्रतादि चरणं भवतीति योगः, व्रतानि - प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्म - त्ति श्रमणाः साधवो धारयतीति धर्मः श्रमणानां धर्मः- क्षान्त्यादिकश्चरणं भवतीति सर्वत्र मीलनीयम् । 'संजमे 'ति सम्एकीभावेन यमः संयमः, उपरम इत्यर्थः, स च प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकारः 'वेयावच्च' इति व्यावृत्तस्य भावो वैयावृत्त्यं, आचार्यादिभेदाद्दशप्रकारं, चशब्दः समुच्चये, किं समुच्चिनोति १, विनयश्च, 'बंभगुत्तीओ'त्ति ब्रह्म इति ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः, चर्यशब्दलोपादेवमुपन्यासः कृतः, ताश्च वसत्यादिका नव ब्रह्मचर्यगुप्तयः, 'नाणाइतियं' ति | ज्ञायतेऽनेनेति ज्ञानम् - आभिनिबोधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत् ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम्, 'तव' इति तापयतीति तपो- द्वादशप्रकारमनशनादि 'कोहनिग्गहाइ' इति 'क्रुध कोपे' क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्य निग्रहः क्रोधनिग्रहः स आदिर्यस्य मानादिनिग्रहकदम्बकस्य तत्क्रो
For Personal & Private Use Only
चरणस
ततिः
भा. २
॥ ५॥
elibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 456