SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ५ ॥ Jain Education न्तभेदपक्षे एकार्थिकानि युज्यन्ते, कथम् ?, यस्य ह्येकान्तेनैव सर्वे भावाः सर्वथा भिन्ना वर्तन्ते तस्य हि यथा घटशब्दात्पट| शब्दो भिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य कुटशब्द एकार्थिको युज्यते ?, एकार्थिकत्वं हि कथञ्चिद्भेदे भवतीति एवमेकान्ताभेदवादिनोऽपि न युज्यन्ते एकार्थिकानि, कथम् ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकार्थिको न भवति एवं कुटादयोऽपि न युज्यन्ते, अभिन्नत्वात् इत्यलं चसूर्येति ॥ १ ॥ अधुना चरणपदव्याख्यानार्थमिदं गाथासूत्रमाह वयें समधम्म संजैम वेयवच्चं च वंभर्गुत्तीओ । नाणाइतियं तवें कोहनिग्गहाई चरणमेयं ॥ २ ॥ ( भा० ) व्याख्या - भवतीति क्रियाऽनुवर्तते, व्रतादि चरणं भवतीति योगः, व्रतानि - प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्म - त्ति श्रमणाः साधवो धारयतीति धर्मः श्रमणानां धर्मः- क्षान्त्यादिकश्चरणं भवतीति सर्वत्र मीलनीयम् । 'संजमे 'ति सम्एकीभावेन यमः संयमः, उपरम इत्यर्थः, स च प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकारः 'वेयावच्च' इति व्यावृत्तस्य भावो वैयावृत्त्यं, आचार्यादिभेदाद्दशप्रकारं, चशब्दः समुच्चये, किं समुच्चिनोति १, विनयश्च, 'बंभगुत्तीओ'त्ति ब्रह्म इति ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः, चर्यशब्दलोपादेवमुपन्यासः कृतः, ताश्च वसत्यादिका नव ब्रह्मचर्यगुप्तयः, 'नाणाइतियं' ति | ज्ञायतेऽनेनेति ज्ञानम् - आभिनिबोधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत् ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम्, 'तव' इति तापयतीति तपो- द्वादशप्रकारमनशनादि 'कोहनिग्गहाइ' इति 'क्रुध कोपे' क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्य निग्रहः क्रोधनिग्रहः स आदिर्यस्य मानादिनिग्रहकदम्बकस्य तत्क्रो For Personal & Private Use Only चरणस ततिः भा. २ ॥ ५॥ elibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy