Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 9
________________ चशब्दात्सिद्धनमस्कारः । एवं व्याख्याते सत्याह-किमर्थ सिद्धनमस्कारः पश्चादभिधीयते ?, अपि त्वहनमस्कारानन्तरं वाच्य इति, अत्रोच्यते, यानि ह्यहंदादीनि पदानि तेषां सर्वेषामेव सिद्धाः फलभूताः, अतः फलप्रतिपादनार्थ पश्चादुपन्यास इति, अथवाऽर्हन्नमस्कारेणैव सिद्धनमस्कारोऽप्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादर्हतामित्यलं प्रसङ्गेनेति ॥ १॥ अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थ द्वितीयं गाथासूत्रमाह-'ओहेण उ' इति, ओघः संक्षेपः समासः सामान्यमित्येकोऽर्थः, तेन ओपेन नियुक्तिं वक्ष्ये इति योगः, तदनेन गाथाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा च व्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते, अतः क्रियाऽऽनन्तर्यलक्षणः संबन्धः, एवं कार्यकारणलक्षणोऽपि द्रष्टव्यः-कार्यम्-ओघनिर्युक्त्यर्थपरिज्ञानमनुष्ठानं च कारणं तु वचनरूपापन्ना ओपनियुक्तिरेव, एवं च साध्यसाधनादयोऽपि द्रष्टव्या इति । तुशब्दो विशेषणे, किं विशिनष्टि ?-ओघेन वक्ष्ये, तुशब्दाकिञ्चिद्विस्तरतोऽपि, "छप्पुरिमं” इत्यादि, नियुक्तिं वक्ष्य इति-नि:-आधिक्ये योजनं युक्तिः, सूत्रार्थयोर्योगो नित्यव्यव-15 स्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिरुच्यते, नियता निश्चिता वा योजनेति, ततश्च नियुक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः,यथोष्ट्रमुखी कन्येति । 'वोच्छं' इति वक्ष्ये' अभिधास्य इति यदुक्तं भवति, कुतो वक्ष्ये ? इत्यत आह–'चरणकरणानुयोगात्' चर्यत इति चरण-वक्ष्यमाणलक्षणं व्रतादि क्रियत इति करणं-पिण्डविशुद्ध्यादि, चरणं च करणं च चरणकरणे तयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनुयोगः अनुकूलो वा योगोऽनुयोगः, अथवाऽणु-सूत्रं महान्-अर्थः ततो महतोऽर्थस्थाणुना सूत्रेण योगोऽनुयोगः, तस्माच्चरणकरणानुयोगात् Jain Educa t ional For Personal & Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 456