Book Title: Nirgrantha Aetihasik Lekh Samucchaya Part 1
Author(s): M A Dhaky
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

View full book text
Previous | Next

Page 329
________________ 300 Jain Education International નિર્પ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ नन्दीश्वरस्य गिरिनारगिरीश्वरस्य श्रीस्तम्भनस्य भविका अवतारतीर्थम् । संवीक्ष्य यत्र परमां मुदमुद्वहन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२१॥ स्वर्गाधिरोहभवने जगतां कृपालु - यंत्र प्रभुर्विनमिना नमिना च सेव्यः । तत्खड्ग- बिम्बनकृताऽपररूपयुग्मः श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२२|| श्रीषोडशो जिनपतिः प्रथमो जिनेश: श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः । श्रृङ्गद्वितीयमिह यत्र पवित्रयन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२३|| त्रैलोक्यलोचनचकोरक चन्द्रिकाभा सुस्वामिनी शिवगता मरुदेवीनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२४|| यत्रैष भव्यजनकल्पितकल्पवृक्षश्रीसङ्घरक्षणमहर्निशबद्धकक्षः । अष्टासु दिक्षु वितनोति कपर्दियक्षः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ २५ ॥ ( शार्दूलविक्रीडितम्) इत्येवंविधपुण्डरीकशिखरीस्तोत्रं पवित्रं मुदा श्रीमन्नाभिनरेन्द्रनन्दनजिन ध्यानैकतानव्रतः । श्रद्धाबन्धुरमानसः पठति यः सन्ध्याद्वये नित्यशः स्थानस्थोपि निरन्तरं स लभते सत्तीर्थयात्राफलम् ||२६|| ॥ इति श्रीशत्रुञ्जय - चैत्यपरिपाटी समाप्ताः || “B” ॥ इति श्री शत्रुञ्जय महातीर्थपरिपाटीका समाप्ताः ॥ “A” For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378