Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ वाचकानां प्रतिभाव: प्रतिस्पन्दः नवनन्दनकल्पतरो ! भवतारणदक्ष गुरो !! भव मे हृदि हर्षकरो, जय दुर्गुणवारिमरो ! ।। कुरुतां जनता बहुसुकृतं यदि वा दुरितं मतिविहतम् । कुरुतां महितां हितसुहितां महतां हृदयं ननु सदयम् ।। संस्कृते प्राकृते साहिती वर्धयन् सर्वदा सर्वदो भारती हर्षयन् । हासयन् वाचकान् कल्पवृक्षोऽधुना राजतामाश्रितो राजतां नन्दने ।। एच. वि. नागराजराव् ९० नवम उपमार्ग, नविलुमार्गः, कुवेम्पुनगरम्, मैसूरु ५७००२३ पूज्यवर्याः ! सादरं नैकाः प्रणतयः । ऊनविंशशाखायां मुनिधर्मकीर्तिविजयप्रणीता 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इति कथा साश्रुनयनं पुनः पुनः पठिता । पठता चाऽनुभूतं यदेषा घटना चित्रवत् प्रचलन्त्यस्तीति । अत्यन्तं हृदयद्राविणी कथैषा । अस्मिन् युगे देवभाषारक्षणाय क्रियमाणा भवतां प्रयत्नाः सुश्लाघनीयाः । तदर्थं लेखितुं वक्तुं वा शब्दा एव न विद्यन्ते । विदुषामनुचरः डॉ. राजेन्द्र जोषी लोहारदा (जि. देवास) म.प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 202