Book Title: Nandanvan Kalpataru 2008 00 SrNo 20 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 8
________________ Lessonam डा. रूपनारायणपाण्डेयः प्रयागः मान्याः, सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' एकोनविंशी शाखाधिगता, प्रसादश्चानुभूतः । नूनं शिक्षणस्य संरचनायां साम्प्रतं परिवर्तनमपेक्ष्यते, किन्तु परिवर्तनेऽस्मिन् सदाचरणस्य बीजानि वप्तुं पदे पदे गुरुजनानां शिक्षकाणां धर्मोपदेशकानां नीतिगुरुजनानां पत्रकाराणां पत्रपत्रिकासम्पादकानां सञ्चारसाधनाकर्मणि रतानां सज्जनानां देवीनां च सच्चरितमपेक्ष्यते । अस्मासु सच्चरितस्य निधानं विधेयम् । तत्कथं स्यादिति चिन्तनीयम् । _ 'नन्दनवनकल्पतरुः' क्षेत्रेऽस्मिन् शनैः शनैः विविधाभिर्हद्यरचनाभिः प्रयतते । 'परोपकाराय सतां विभूतयः', 'गुणेषु यत्नः क्रियताम्', 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इत्यादिकथाभिः प्रतीयते । 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इति कथायां निर्धनस्य किन्तु नीतिमार्गारूढस्य धनपालस्य यच्चरितं मान्येन श्रीमता मुनिधर्मकीतिविजयेन निरूपितं तत् खलु सर्वथा हृदयं संस्पृशति । यद्येतादृशाः पुरुषा महिला वा संसारेऽस्मिन् सुलभाः स्युः, तदाऽस्माज्जगतो भ्रष्टाचारस्य समूलोन्मूलनं स्यात् । 'संस्कृतिः संस्कृताश्रिता किम्' इतिलेखे (आलोचने) श्रीमतो नागराजरावस्य विचारो विचिन्त्येत । वस्तुतः कामपि भाषामधीत्य कोऽपि चारित्र्योपेतो नैव भवति, किन्तु संस्कृतभाषामधीत्य जनाः समग्रसंस्कृतिरत्नभूताया भारतीयसंस्कृतेः समुन्नतमर्यादां सदाचारोपेतस्य जीवितस्य च रहस्यानि सम्यग् वेत्तुं शक्नुवन्ति, स्वकीयमपि च जीवितं चारित्र्योपेतं कर्तुं शक्ता भवन्ति । वैधपरिणयात्प्राग् यस्यां संस्कृतौ नार्यो न जाने, कति पुरुषान् प्रणयन्ति परिणयन्ति वा। ताः खलु कथं जानन्तु-अनसूयारुन्धती-सतीसीतासावित्रीप्रभृतीनां नारीणां सतीत्वस्योद्दात्तत्वम् ? जयतु संस्कृतं संस्कृतिश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202