Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 9
________________ एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अनेकार्थैरकारादिक्रमोपेतादिवर्णकैः । जिज्ञासितस्य शब्दस्य सुखदर्शनसिद्धये ॥ १९ ॥ इत्युक्तो राजराजेन शिरसादाय शासनम् । शास्त्रं कर्तुमुपाक्रस्त राजराजोक्तवर्मना ॥ २० ॥ ओङ्कारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनन्ति वेदेषु तं प्रपद्ये विनायकम् ॥ २१ ॥ यस्यार्ध वन्दे त्वा भव! हर! महिला विलासिनी स्तननमिता । शिरसि सरिद् वीचीभिर्भवहरमहिलाविलासिनीस्तननमिता ॥ २२ ॥ बहुप्वाचार्यवाक्येषु बहुशः पुनरुक्तितः । पुनरुक्तान् विहायानन्यार्थप्वभिधाम्यते ॥ २३ ॥ एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् । षट् काण्डाः प्रतिकाण्डं च पञ्चाध्याया यथाक्रमात् ॥ २४ ॥ स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः । अनेकार्थैरकारादिक्रमोपात्तादिवर्णकैः ॥ २५ ॥ अस्त्रीविषयजातीनां जातिमात्रे नृता स्मृता । अर्थ योनिमति स्त्रीत्वं पुंस्त्वं मेट्वति स्मरेत् ॥ २६ ॥ द्वे द्वयोरिति वा शब्दावस्मिन्नर्थेऽवधारयेत् । ये तु शब्दाः प्रवक्ष्यन्ते स्थावरान्तरवाचिनः ॥ २७ ॥ तेषां स्वफलपुष्पेषु प्रतीयात् क्लीबलिङ्गताम् । अम्यार्थस्य यदा क्वापि पुनरुक्तिर्भविष्यति ॥ २८ ॥ एतस्यैव प्रपञ्चम्य स्मरणायेति मन्यताम् । स्त्रीपुन्नपुंसकानां ये शब्दाः स्युर्वाचकाः पृथक् ॥ २९ ॥ लिङ्गमाचक्ष्महे शब्दैस्तैरन्यत् परिभाप्यते । त्रि त्रिस्त्रिवित्यमी शब्दा वाच्यलिङ्गस्य वाचकाः ॥ ३० ॥ १. 'स्मा' ख. पाठः. .

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 342