Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
नानार्थार्णवसंक्षेपे धीस्तु कर्मणि बुद्धौ च धृस्तु यानमुखेऽगुलौ । भारे विकृतगीतौ च गायत्राहयसामनि ॥ ५५ ॥ साम्नां द्रष्टषु चैकेषु नौर्वाक्कालतरिष्वथ । पूर्वहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥ भूर्भूम्यां स्थानमात्रे च सौराष्ट्यां व्योमदेहयोः । मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥ मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाहये । मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८ ॥ समानायसमानातो निरूप्यात्र निवेश्यताम् । रुक् प्रभाकान्तिवाञ्छा रुक् तु स्याद् व्याधितोदयोः ॥ ५९ ॥ वाग् वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे चै केचन । श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥ प्रथमायां विभक्तौ च व्याचष्टे भगवानमूम् । स्त्री प्रियङ्ग्वाहये वृक्षे वनीवनितयोरपि ॥ ६१ ॥ लनाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे । उक् सुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ।। ६२ ॥
इत्येकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
अथैकाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथैकाक्षरपुल्लिङ्गा अकारो विष्णुवेधसोः ।। कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥ ओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्लानिचन्द्रयोः । आकाशे दिवसे च द्युः पुमानात्मनि पौरुषे ॥ २ ॥
१. 'च' ख. पाठः. २. 'तु' ख. पाठः. ३. 'मु' क. घ. पाठः.
- 'दु क्लीबमहि गगने च' इति तु मेदिनी । 'आकाशे दिवसे च दु:' (पु. २७० को. ६.) इति वैजयन्ती। पूरुषे' इति स्यात् ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 342