Book Title: Nanartharnav Sankshep Author(s): Keshav Swami, Ganpati Shastri Publisher: Amar Publication View full book textPage 7
________________ ॥ श्रीः॥ राजराजीयापरनामा नानार्थार्णवसंक्षेपः केशवस्वामिप्रणीतः। एकाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। श्रीकुलोत्तुनचोलाख्यश्चोलेष्वासीन्महीपतिः । यः कलिं भारताद् वर्षाद् बहिश्चक्रेऽतिदूरतः ॥१॥ येन सर्वाणि वित्तानि सकलापि वसुन्धरा । कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २ ॥ तस्य सूनुरभूद् देवो रांजराजो महीपतिः । अभूतपूर्वमहिमा सन्त्यक्तो राजचापलैः ॥ ३ ॥ यौवने वर्तमानोऽपि सूर्यवंशसमुद्भवान् । अत्यशेत स राजेन्द्रान् परिपक्कतया भृशम् ॥ ४ ॥ कर्णोऽसौ दानशौण्डानामग्रणीरिति विश्रुतः । स प्राह एव विश्राण्य स्वापतेयमशेषतः ॥५॥ अहश्शेषं च रात्रिं च देयाभावादनिर्वृतः । तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥ १. 'तिः' ख. पाठPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 342