________________
एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अनेकार्थैरकारादिक्रमोपेतादिवर्णकैः । जिज्ञासितस्य शब्दस्य सुखदर्शनसिद्धये ॥ १९ ॥ इत्युक्तो राजराजेन शिरसादाय शासनम् । शास्त्रं कर्तुमुपाक्रस्त राजराजोक्तवर्मना ॥ २० ॥ ओङ्कारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनन्ति वेदेषु तं प्रपद्ये विनायकम् ॥ २१ ॥ यस्यार्ध वन्दे त्वा भव! हर! महिला विलासिनी स्तननमिता । शिरसि सरिद् वीचीभिर्भवहरमहिलाविलासिनीस्तननमिता ॥ २२ ॥ बहुप्वाचार्यवाक्येषु बहुशः पुनरुक्तितः । पुनरुक्तान् विहायानन्यार्थप्वभिधाम्यते ॥ २३ ॥ एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् । षट् काण्डाः प्रतिकाण्डं च पञ्चाध्याया यथाक्रमात् ॥ २४ ॥ स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः । अनेकार्थैरकारादिक्रमोपात्तादिवर्णकैः ॥ २५ ॥ अस्त्रीविषयजातीनां जातिमात्रे नृता स्मृता । अर्थ योनिमति स्त्रीत्वं पुंस्त्वं मेट्वति स्मरेत् ॥ २६ ॥ द्वे द्वयोरिति वा शब्दावस्मिन्नर्थेऽवधारयेत् । ये तु शब्दाः प्रवक्ष्यन्ते स्थावरान्तरवाचिनः ॥ २७ ॥ तेषां स्वफलपुष्पेषु प्रतीयात् क्लीबलिङ्गताम् । अम्यार्थस्य यदा क्वापि पुनरुक्तिर्भविष्यति ॥ २८ ॥ एतस्यैव प्रपञ्चम्य स्मरणायेति मन्यताम् । स्त्रीपुन्नपुंसकानां ये शब्दाः स्युर्वाचकाः पृथक् ॥ २९ ॥ लिङ्गमाचक्ष्महे शब्दैस्तैरन्यत् परिभाप्यते । त्रि त्रिस्त्रिवित्यमी शब्दा वाच्यलिङ्गस्य वाचकाः ॥ ३० ॥
१. 'स्मा' ख. पाठः. .