________________
मानार्थार्णवसोपे पर्जन्यस्येव वर्षासु वस्तूनि बहु वर्षतः । न किश्चिदपचीयन्ते कोशाः प्रत्युत वर्धनाः ॥ ७॥ धर्मस्यैव समुच्छायादधर्मस्य च निग्रहात् । सुखेन वृत्तेः साधूनामसाधूनां नियन्त्रणात् ॥ ८॥ अमुना राजराजेन कलिः कृतयुगीकृतः । बहुना किं प्रजल्पेन महात्मानोऽपि तद्गुणान् ॥ ९ ॥ शंसितुं कवयोऽशक्ताः किं पुनर्मादृशो जनः । । महाग्रहारो राजेन्द्रचोलीको मह १० ॥ सर्वविद्यासमृद्धानां श्रीमतामूषितेजसाम् । निवासो विप्रवर्याणां चोलेष्वासीत् प्रतिष्ठितः ॥ ११ ॥ महामाहेश्वराणां यस्तारुण्येष्वेव यज्वनाम् । राज्ञा राजेन्द्रचोलेन स्वनाम्ना स्थापितः पुरा ॥ १२ ॥ राष्ट्रस्यास्य समृद्धस्य शिरोभूषणसन्ततिः । तत्राग्रहारे वास्तव्यो वत्सगोत्रसमुद्भवः ॥ १३ ॥ . सामवेदविदां मान्यः केशवस्वामिनामकः । । श्रीराजराजदेवस्य सेवकोऽभूद् द्विजाग्रणीः ॥ १४ ॥ तं कदाचित् समामन्व्य सेवमानं महीपतिः । चिराच्चिकीर्षितं वस्तु मृत्वाज्ञापयदीदृशम् ॥ १५ ॥ आर्य! वत्ससुखायर्यालं कौतूहलमतीव मे । सलिङ्गेऽस्पष्टसाधूनां नाम्नां नानार्थवाचिनाम् ॥ ११ ॥ परम्परायास्त्वदृते न चान्यः शब्दवित्तमः । एकद्वित्रिचतुःपञ्चपदस्वरैर्नामभिः क्रमात् ॥ १७ ॥ काण्डागि प्रतिकाण्डं च पञ्चाध्यायौः क्रमाद् यथा । . स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गः सङ्कीर्णलिङ्गकैः ॥ १८ ॥
1. 'वासको' ग. पाठः. २. 'गांव' ख. पाठ:. ३. 'या यथाक्रमम् ' ख. पाठः. ४. 'वर्गकैः' घ. पाठः.