Book Title: Manibhadrakavyam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 182
________________ वियदिव परिभिन्दन् वायुवेगान् विभञ्जन् प्रलयमलघु पृञ्चन् दिग्गजानां विविञ्जन् । जगदिव च निरून्धन्नट्टहासः प्रचण्डोऽ सकृदिह हृदयानामाविरासीन्नु पिंषन् ॥२५॥ क्वचिदसिनिहतेन क्षुण्णमाल्यावलिना क्वचिदसमकिरीट-भ्रंशिभिः कुन्तघातैः । क्वचिदविरतपातै-र्दारिताङ्गैश्च तीरैः क्वचिदविचलशीर्ष-द्वैधकृद्भिर्गदाभिः ॥२६।। क्वचिदरिपदभङ्गी-साधकैः पाणिघातैः क्वचिदुदरधृताभिश्छद्मना मुष्टिकाभिः । क्वचिदधिगलबद्धै-रङ्गलैर्धारितानैः समरमुपगतास्ते कुन्तलाकर्षिकाभिः ॥२७॥ अथ विलसितसत्त्वः सत्त्वरं जेतुमिच्छन् गुरुविनयसकामः काममाधाय वेगम् । परिहतनिजनागो नागपाशेन तूर्णं युगलमपि निबद्धं बद्धपुण्यो जिगाय ॥२८॥ मुनिदशकशरारू ! दुर्गतौ स्तो नितान्तं कथमिव युवयोस्यान् मुक्तिरत्यन्तपापात् । बहुलकलुषकीटै-देहयोरासमन्ताद् विषरसघनपीडास्सन्तु संवत्सहस्रम् ॥२९।। रचयति यमराजो मृत्युमेकक्षणेन न हि न हि युवयोर्मां रोचतेऽल्पैव बाधा । प्रथयतु मम शक्त्या नारकाद्वा निगोदादधिकतरमुदग्रा यातनाऽऽजीवनीया ॥३०॥ १६० श्रीमाणिभद्रमहाकाव्यम् ९

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209