________________
वियदिव परिभिन्दन् वायुवेगान् विभञ्जन् प्रलयमलघु पृञ्चन् दिग्गजानां विविञ्जन् । जगदिव च निरून्धन्नट्टहासः प्रचण्डोऽ सकृदिह हृदयानामाविरासीन्नु पिंषन् ॥२५॥
क्वचिदसिनिहतेन क्षुण्णमाल्यावलिना क्वचिदसमकिरीट-भ्रंशिभिः कुन्तघातैः । क्वचिदविरतपातै-र्दारिताङ्गैश्च तीरैः क्वचिदविचलशीर्ष-द्वैधकृद्भिर्गदाभिः ॥२६।।
क्वचिदरिपदभङ्गी-साधकैः पाणिघातैः क्वचिदुदरधृताभिश्छद्मना मुष्टिकाभिः । क्वचिदधिगलबद्धै-रङ्गलैर्धारितानैः समरमुपगतास्ते कुन्तलाकर्षिकाभिः ॥२७॥
अथ विलसितसत्त्वः सत्त्वरं जेतुमिच्छन् गुरुविनयसकामः काममाधाय वेगम् । परिहतनिजनागो नागपाशेन तूर्णं युगलमपि निबद्धं बद्धपुण्यो जिगाय ॥२८॥
मुनिदशकशरारू ! दुर्गतौ स्तो नितान्तं कथमिव युवयोस्यान् मुक्तिरत्यन्तपापात् । बहुलकलुषकीटै-देहयोरासमन्ताद् विषरसघनपीडास्सन्तु संवत्सहस्रम् ॥२९।।
रचयति यमराजो मृत्युमेकक्षणेन न हि न हि युवयोर्मां रोचतेऽल्पैव बाधा । प्रथयतु मम शक्त्या नारकाद्वा निगोदादधिकतरमुदग्रा यातनाऽऽजीवनीया ॥३०॥
१६०
श्रीमाणिभद्रमहाकाव्यम् ९