Book Title: Manibhadrakavyam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
नियतमिह करिष्ये श्रीतपागच्छसेवां मम गतभवपापा-लोचनैषैव भूयात् । जगदिदमुपशान्ति यातु धर्माश्रयेण विकसतु शुभधर्मस्साधूनां साधनाभिः ॥४२॥
प्रचरतु मुनिसङ्के साधना विघ्ननाशाद् प्रभवतु बलसाध्यो विघ्ननाशो मयैव । इति सुरभवमुच्चैर्धर्मवन्तं विरच्य नरभवमुपजातो मोक्षगामी भवेयम् ॥४३॥ त्रिभिर्विशेषकम्
इति वचनविनीतं पादयोस्स्पृष्टमौलिं पदयुगधृतहस्तं चाङ्गुरस्थाप्यभालम् । सुरपतिमनगारा अंसभागे स्पृशन्तः पुनरपि मधुरं तं धर्मलाभं निरूचुः ॥४४॥
इत्यानन्दितसद्गुरुक्रमगतोऽभ्युत्थाय बद्धाञ्जलिनत्वाऽऽज्ञामुपलभ्य सार्वशरण: श्रीमाणिभद्रः सुरः । सर्वान् साधुजनान् नमन् गुणवतः सार्मिकान् संस्तुवन् पुण्यावर्जितमानस: प्रशमवान् स्वर्लोकमध्याश्रितः ॥४५॥
श्रीमाणिभद्रमहाकाव्यम् ९

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209