Book Title: Kavya Sangraha Part 1 Author(s): Hiralal R Kapadia Publisher: Jinshasan Aradhana Trust View full book textPage 6
________________ ।। सूरिप्रेमाष्टकम् ॥ कर्ता: पन्यास श्रीकल्याणबोधिविजयगणी श्रीदानसूरिवरशिष्यमतल्लिका स गीतार्थसार्थसुपतिप्रणताद्द्विपद्मः । सिद्धान्तवारिवरवारनिधिः महर्षिः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ १ ॥ चारित्रचञ्दनसुगन्धिशरीरशाली स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः । मौनप्रकर्षपरिदिष्टमहाविदेहः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरिः विश्वाद्भुतप्रवरसंयतगच्छकर्ता । जैनेन्द्रशासनमहत्कुशलौघकल्पः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । लोकोत्तरास्वनितदर्शितसार्वकक्षः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ Jain Education International (वसन्ततिलका) वैराग्यनीरजलधि- र्निकटस्थसिद्धिः संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदकलकल्पवृक्षः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ ऐदंयुगीनसमये हि समस्तवर्षे ! मन्ये न साधकवरः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ ६ ॥ अत्यन्तनिःस्पृहमनःकृतदभ्ररागः संतोष केसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात् श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ ७ ॥ क्वाऽहं भवद्गुणसमुद्रतलं यियासुः नाऽहं भवत्स्तुतिकृते ऽस्मि समर्थबुद्धिः नाऽहं भवत्पुनितपादरजोऽप्यरेऽस्मि कल्याणबोधिफलदातृतरो ! नतोऽस्मि 11211 For Private & Personal Use Only 1 www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 224