________________
।। सूरिप्रेमाष्टकम् ॥
कर्ता: पन्यास श्रीकल्याणबोधिविजयगणी
श्रीदानसूरिवरशिष्यमतल्लिका स गीतार्थसार्थसुपतिप्रणताद्द्विपद्मः ।
सिद्धान्तवारिवरवारनिधिः महर्षिः
श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ १ ॥
चारित्रचञ्दनसुगन्धिशरीरशाली स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः ।
मौनप्रकर्षपरिदिष्टमहाविदेहः
श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥
कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरिः विश्वाद्भुतप्रवरसंयतगच्छकर्ता । जैनेन्द्रशासनमहत्कुशलौघकल्पः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥
दर्शस्य रात्रिसदृशे कलिकालमध्ये प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । लोकोत्तरास्वनितदर्शितसार्वकक्षः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥
Jain Education International
(वसन्ततिलका)
वैराग्यनीरजलधि- र्निकटस्थसिद्धिः
संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदकलकल्पवृक्षः
श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥
ऐदंयुगीनसमये हि समस्तवर्षे ! मन्ये न साधकवरः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ ६ ॥
अत्यन्तनिःस्पृहमनःकृतदभ्ररागः संतोष केसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात् श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ ७ ॥
क्वाऽहं भवद्गुणसमुद्रतलं यियासुः नाऽहं भवत्स्तुतिकृते ऽस्मि समर्थबुद्धिः नाऽहं भवत्पुनितपादरजोऽप्यरेऽस्मि कल्याणबोधिफलदातृतरो ! नतोऽस्मि 11211
For Private & Personal Use Only
1
www.jainelibrary.org