Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
२७
१९
अनुसंधान-१५ • 42 विद्वच्चकोरकमलक्षणमुक्तदेह सन्देहहारकमलस्य वचोविलासः ॥२९।। वरतनु तारकमलणः सत्यान्धकमलणभान्धकदघौघे । नरकमलणाभनरकध्वंसे समकमलणाद्विरत: ॥३०॥ भूतिकमलकहरणः प्रणमद्दशकमलबद्धसार्वायुः । सूर्पकमलणविमुक्त: प्राणिभ्यो भावुकमलासीत् ॥३१॥ चरणमनङ्कमलासीत्सत्यागदयाढ्यनन्दकमलाय: । कमलाख्यमपि ददानस्तथा निधानं महाकमलम् ॥३२॥ आनम्रपाकमलण: स्वामी मध्यकमलं निधि यच्छन् । उन् पृथुकैमलणगोयायजूकमलणोद्भवं दुरितम् ॥३३॥ मध्यकमलकेतुहतः प्रसन्नतारकमलजदविष्टः । दानत्रिकमलतुल्यः सहस्रकमलसुतगुणौधः ॥३४॥ रिपुरङ्कपञ्चकमलः श्रेयश्रीवल्लरीकमलतुल्य: । गाम्भीर्यकमललश्रीः षट्कमल इव व्रती सार्वः ॥३५॥ निर्मलसहस्रकमलाजलवकर्मलश्रियाऽस्तपूर्णशशी । जगति चतुःकमलसम: समक्सृतौ सुकमलभ्यपद(:) ॥३६॥ सार्वः कमलजनादः श्रेयोनिर्माणपञ्चकमलसमः ।
कमलजकेतुजिनोक्तावतारकमलजनिधि यच्छन् ॥३७॥ १.चन्द्रलाञ्छन, २.सन्देहहरणे शिवो महेशः शिवो हि संहारदक्षः, ३.शिव, ४. रस्यं आस्वादनीय, ५.तारकदैत्यस्य मरणं यस्मात्स कार्तिकेयः, ६.अन्धकमरणो ऊडः, ७.नरकमरणः कृष्णः, ८. समे समस्ताः का: प्राणिनस्तेषां मरणं हिंसा, ९.मरको मारि, १०. कमलमिव कमलं मस्तकं दशकमलो रावणः, ११.सूर्पकदैत्यमरणः कामः, १२.भद्रं मङ्गलं दत्तवान्, १३. चारित्रं नि:कलङ्क अलासीत् गृहीतवान्, १४.नन्दकः खङ्गः तं मलते नन्दकमल: कृष्णः स इवाचरतीति नन्दकमलायतीति नन्दकमलाय: १५.पद्मनामा निधिः, १६.महापद्मनिधानं, १७.पाकदैत्यस्य मरणं यस्मात् स पाकमरण इन्द्रः, १८.मध्ये को यत्र स मल शब्दः एतावता मकराख्यो निधिः, १९. पृथुको बालस्तस्य मरणं हत्या, यायजूको ब्राह्मणस्तस्य मरणं हत्या, २०. मकरकेतुः कामः, २१.नेत्रः, २२.मलो देवादिपूजायां अश्राद्धः, २३.दूरः, २४. कमलमिव कमलं मस्तकं त्रिकमलशिरा: धनदः, २५.सहस्रकमलो सहस्त्रमस्तकः शेषाहिः, २६.वैरिमृगे, २७. सिंहः पंचाननः, २८. कं पानीयं मलते धरति कमलो मेघः, २९.कं जलं तस्य राशिर्यस्य स कमण्डलः समुद्रः, ३०. पण्मुखः कात्तिकेयः, ३१.सहस्रमुखी गङ्गा, ३२.मुख, ३३.ब्रह्मा चतुर्मुखः, ३४. सु शोभना: का: प्राणिनस्तैलं भ्यपदः, ३५.कमलं जलं तत्र जायते कमलजः शङ्ख, ३६. पञ्चमुख ईश्वरः, ३७.शंखकेतुर्नेमिजिनः, ३८.शलनामा निधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20