Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ अनुसंधान-१५ . 51 एवं य: कमलाभिधानसुमनःस्तोमैः श्रिया निर्मलैनिर्माय प्रवरार्थसौरभभरैः स्तोत्रस्रजं सद्गुणाम् / भक्त्या श्रीवृषभाख्यविष्टपविभोरारोपयत्यादरात् तस्यासौ वरमालिकां शिवरमाकण्ठे निदेधीयते // 129 // भक्त्या श्रीयुतशान्तिविष्टपविभोरारोपयत्यादरात् / एवं पार्श्व-नेमि-वीराणामपि नामानि क्षेप्यानि सद्योगैः कमलादिमैः कृतजनिर्दिष्टे विशे(शि)ष्टे स्फुरलक्ष्मीसागरउल्लसत्सुमतिसाधुप्राप्यसद्दर्शनः / तेजोराजिविराजिहेमविमलप्राज्यप्रतापोदयः सश्रीआदिजिनः सहर्षकुलजः कुर्यादहार्याः श्रियः // 131(30) / सश्रीशान्तिजिन-इत्यादि स्वयं ज्ञेयम् / पं हर्षकुलगणि कृता कमलपञ्चशतिका // श्रीसोमविमलसूरिणा स्वकृते शोधिता ॥श्रीरस्तु॥ १.कमलं पद्मं तस्योपलक्षणत्वात् शेषपुष्पग्रहणम् / / 2. कमलयोगो जन्मपत्रिकायां सतां जायते, स ज्योतिर्विदां प्रसिद्धः / ३.स्यात्काल: समयो दिष्टः काल इत्यर्थः / / २.कमलं पश्यं तस्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20