Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ अनुसंधान-१५ • 47 कुर्वनृणां तुकमलाञ्छितमूतिरेतद्वाञ्छावतां दददशङ्कमलक्तचेता: ॥१००।। धर्माक्षेपकमलमं साम्यविडम्बकमलम्यदुर्गतिगम् । त्वदनाक्षेपकमलजं कुरुषे स्वस्तावकमलाप्यम् ।।१०१।। कर्मान्तकारकमलनसि भूमिपीठं व्यापत्प्रमायकमलत्पदिमुख्यधातून् । सार्वेशनामकमलं विमलावबोधे द्रव्यात्मनाऽपि कमलं कथयन्त्रयश्रीः ॥१०२।। वक्त्रेण यः कमलवैरिणमाजिगाय काष्टास्यलोकमलयन्त पुनर्नवौघः । सुस्थापनाकमलमुज्ज्वलमङ्गलश्रीनिक्षेपत: कमलमीश वदश्च भावात् ॥१०३।। कमललीशभवेऽपि शिवे तथा कमललिन्यतिहावैवशीकृतः । कमलमाथितनुद्युतिराशिता कमलवस्तुपरित्यजकः श्रिये ॥१०४॥ कमलधारिनिषेव्यपदाम्बुजः कमलवाचकमीश्वर निक्षिपैन् । कमलमुच्यसि देशमनेहसं कमलभव्यमहो कमलं वदन् ।।१०५।। कमलचक्रधनूरथवज्रभृत्पदयुगः कमलव्रजवर्जितः । कमल वत्यखरांग कथान्तरे कमलेसेननृपं प्रतिपादयन् ॥१०६॥ कमलनामकमीश पुरं तथा दयितयानुगतं कमलाख्यया । सुतवरं प्रवरं कमलाकरं कमलसामजमादिजिनेशितः ॥१०७।। युग्मम् ॥ कमलमीश यथा कमलाकरे कमलभृत्यपि वाकमलं यथा । तदिव सज्जननीकमलोदैरे वससि पुंस्कमल: श्रितवैभवः ॥१०८॥ १.अपत्य, २.अपत्य, ३.निन्दक, ४.अर[मं], ५.अर[म्यं], ६.अर[जं], रजः पापं अयमकारान्तोऽपि, ७.मडु भूषायां मण्डन्, ८.आपत्राशकं, ९. मण्डति धातुः आदिधातुः, १०.नामस्थापनाद्रव्यभावभेदात्, ११.कमलद्रव्यं, १२.कमलवैरोचन्द्रः, १३.जितवान्, १४-१५.काष्टा दिशस्तासां आस्यं मुखं तत्र मण्डयन्त: आदर्शस्तद्वत् पुनर्नवा नखा यस्य,१६-१७.भावकमलं, १८.कः कामस्तं मन्दयति कमन् तं आचष्टे कम्-अलड् अवाञ्छकः, १९.कं जलं तब मङ्गतीति कमन् मीनः तां हितवाक्यैः आचष्टे कम्, २०.ललो विलासो यस्याः सा ललिनी स्त्री-अकारो निषेधे, २१.मुखविकारः, २२.कः सूर्यस्तस्य मण्डं शोभां मथतीति, २३.कं चित्तं मलते धरतीति कमलं सच्चित्तं वस्तु, २४.कं सुखं, अण्डधारिणः पक्षिणः, २५.कमलशब्द, २६.कमलं देश कमलं कालं च निक्षिपन् निक्षेपेण वदन, २७.उच्यसि-उचच् समवाये-सुखं मेलयसीत्यर्थः, २८.कमलशब्दज्ञानयोग्यमपि कमलमेव वदन्, २९.शरीरस्वेद, ३०.कमलवती कमलिनी तहत्[अ] खरं कोमलमङ्गं यस्य, ३१.कमलसेननृपं कमलाराज्ञानुगतं कमलाकरं पुत्रं तस्य कमलानाम्ना सामजं हस्तिनं कथाविशेषेण प्रतिपादयति, ३२.पद्म, ३३.पद्मसरसि, ३४. धनुर्धरौ, ३५. धनुः, ३६. कमलशब्दः शोभार्थे, ३७.पुरुषपुण्डरीक:-कमलं पुण्डरीकं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20