Book Title: Kamal Panchshatika Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान- १५• 41
गृहपति कमलोटन्यादकारी संकुच्च ॥ २८॥ कमलमिव दिनेशः प्राप्य दते कुयोगं तदिव' कमलपूजां वामदेवो जनानाम् । कमलभमिव पूर्णं पूर्णिमासीसु योगं त्वमपि कलरम्यो भक्तिभावं नतानाम् ||२५| कमलमिव खगेनाब्जेन युक्तं सुकालं जनजनक लेखं वर्क्षमाख्याति सिद्धिम् । कमलभवकृतं सद्दुर्व्यवायं क्षिणोति
तदिव "कमलजातप्राय धीरैः श्रितस्त्वम् ||२६||
सङ्क्रीडतीव उषया कमलाङ्क ईश ! त्वं वीरसिद्धिरमया कमलाभिरामः । तद्वच्चिरं "कमलमाधिकसद्गुणः सन् दद्यान्महसि "कमलाङ्करुचिप्रतापः ||२७|| विश्वत्रयीकमल नै प्रतिमान्तिमार्हन् गतैराम्बकमलद्युतिकिण्वहारी । संसारतारकमले खेकपुष्यमुख्य नक्षत्रपेटकमलाजैकमीश विश्वम् ॥ २८ ॥ राज त्वदम्बकमलस्तनुषे वदस्त्वं अंहः पुलाकमलवेन्त्रघनिम्नगानाम् ।
१७
१-२-३. मध्यमाभाव इति सर्वत्र योज्यं, करोटं भाजनविशेषस्तेनाऽन्यदपि पात्रं लक्ष्यते तत्र न्यादकारी - भोजनकृत् ३अ. एकवारं ४. कं यमं देवतात्वेन मलति धरति कमलं भरणी नक्षत्रं, ५. तथा, ६. मस्तकपूजा, ७. ईश्वरः ८. कमग्नि देवतात्वेन मलते कमलं कृत्तिका नक्षत्रं, ९. कं आत्मानं मलति कमलं शरीरं तेन रम्यो- रमणीयः ९अ.नतानां भक्तिभावं प्राप्य सुयोगं दत्से, १०. कमलं ब्रह्माणं मलति कमलं रोहिणी नक्षत्रं, 'रोहिणि चंददिवायर हाथिष्का दोघडीआई'इत्युक्तत्वात्, ११. सूर्येण, १२. अब्जेन - चन्द्रेण, १३-१४. मश्चन्द्रः स लेखो देवताऽस्य तत् मलेखऋक्षं नक्षत्रं मृगशरो नक्षत्रं, व इवार्थे, यथा मृगभं सूर्येण चन्द्रेण च सिद्धिमाख्याति तथा त्वमपि, १५. कमलं भरणीनक्षत्रं तस्माद्भवो राहुस्तत्कृतं दुर्व्यवायं दुष्टं विघ्नं क्षिणोषि १६. कमलं रोहिणी नक्षत्रं, तस्माज्जातो बुधग्रहः १७. कमलो मृगः ऋष्यनामा सोऽङ्के यस्य स कमलाङ्कोऽनिरुद्धो यथा उषया कीडति तथा त्वं सिद्धिरमया क्रीडसीति, १८. कमलशब्देन पद्माभिधानः संख्याविशेषः कमल इति मासंख्यातोऽप्यधिकगुणाः, १९. उत्सवान्, २०. कमलाङ्कः पद्मप्रभजिनस्तस्य कान्तिस्तद्वत्प्रतापोयस्य स २१. कं मस्तकं तस्य मण्डनं मुकुटः २२. अनिन्द्यः, २३. अम्बकं नेत्रं तस्य मण्डनं कज्जलं, २४. अर्थात् कृष्णं, २५ मो रुद्रः स लेखको देवता यस्य तत् मलेखकमार्द्रा नक्षत्रं, २६ अराजकमनार्थ, २७. अम्बकं लोचनं तस्मात्, महुड वृद्धौ महते धातूनामनेकार्थत्वात् जायते इति अम्बकमन् चन्द्रस्तद्वल्लसतीति क्विपि स्वादिदीर्घाभावे अम्बकमण्डलः, २८. सक्षेप २९ मरुः पर्वतः स इवाचरन् मरवन् ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20