Book Title: Kalyanak Paramarsh Author(s): Buddhisagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir वाणीए वासिट्ठसगुत्ताए कुञ्छिसि गब्भत्ताए साहरा वित्तए" इति । त्रिशलोदरगो गर्भः, पञ्चकल्याणमध्यगः । प्रोक्तः श्रीभद्रबाहुभिः, स्वनैः कल्याणको हि सः॥१३॥ प्रोक्तः पञ्चाशके गों, यथा कल्याणरूपकः। पुनरत्र तथा प्रोक्तः, त्रिशलोदरगो हि सः ॥ १४॥ सुष्टु प्रोक्तं हि कल्याणं, जिनवल्लभसूरिभिः । दुष्टमुक्तमकल्याणं, त्वत्पूज्यद्वेष्यता हि सा॥१५॥ प्रोक्तः पश्चाशके गर्भः, कल्याणफलसूचकः । कल्पसूत्रेऽपि सः स्वप्नैः, कल्याणफलसूचकः ॥१६॥ सूत्रार्थमपरं नास्ति, येनाकल्याणकं भवेत् । धृष्टा त्रुवन्ति मूढाश्च, कर्मवन्धनहेतवे ॥१७॥ देवानन्दोदराद्गर्भ-स्त्रिशलाकुक्षि(धारणात् )मोचनात् । ज्ञेयो गर्भो यथा पूर्व, तथा कल्याणको हि सः ॥१८॥ हरणं त्रिशलाकुक्षी, विभोर्न मन्यते तदा । कल्याणकानि पञ्च स्या-दन्यथा तु षडेव हि ॥१९॥ हरणं त्रिशलाकुक्षौ, मन्यन्ते श्वेतवाससः । दिगम्बरा न मन्यन्ते, देवानन्दोदराद्विभोः ॥२०॥ मातृकुक्ष्यागतः सार्वः, खप्नैः कल्याणसूचकः। त्रिशलाकुक्षिगो गर्भो, नास्त्यकल्याणको हि सः ॥ २१ ॥ "पंच महाकल्लाणा - यत्तु “जो न सेस सूरीणं, लोयणपहे वि वच्चइ" इत्यनेन गणधरसार्द्धशतकगाथाशकलेन श्रीमद्धरिभद्रसूर्यभवदेवसूर्यादीनां हीलनाकरणादिरूपासदोषोद्भावनं जिनवालभसूरेस्तत्तु तदुद्भाववितुरेवानाघ्राततदर्थगन्धत्वाभिव्यञ्जकं, यतः “यो न शेषसूरीणां-अज्ञातसिद्धान्तरहस्यानामित्यर्थः, लोचनपथेऽपि-दृष्टि|मार्गेऽपि, आस्तां श्रुतिपथे, बजति-याति" इत्यनेन तद्वृत्तिवाक्येन स्पटं तत्कालवर्तिवैद्यकज्योतिष्कमन्त्राद्यारम्भप्रसक्तचैत्यवासिसूरीगामेव गर्भापहारकल्याणकान मिशत्वं ज्ञाप्यते, न तु हरिभद्रसूर्यादीनां प्रवचनविदां, तेषां तु "वुच्चइ पुण जिणमयण्णूहिं-उच्यते पुनर्जिनमत-भगवत्प्रवचनवेदिभिः" इत्येताभ्यां गणधरX सार्द्धशतकतवृत्तिवाक्याभ्यां स्फुटतर प्रतिपाद्यते तज्ज्ञातृत्वमुपदेष्टुत्वं च, प्रकारान्तरेण गर्भाधानरूपत्वादेव गर्भापहारस्य “गम्भे जम्मे" इत्यादिना गृहीतत्वात् "कल्लाणफला य जीवाणं" इलेतत्तत्कृतकल्याणकलक्षणस्यानोपलभ्यमानत्वाच, दर्शयन्तु-किमकल्याणफलं सजातं जायते वा गर्भापहारदिनमालम्ब्य तपश्चर्यादिकर्तृणां जगजीवानामिति ।। maka For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12