Book Title: Kalyanak Paramarsh
Author(s): Buddhisagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नमोस्तु कल्याणकष्ट्राय श्रमणाय भगवते महावीराय श्रीमन्मोहन - यशः स्मारक - जैनग्रन्थमालायां Acharya Shri Kailassagarsuri Gyanmandir परमशासनप्रभावक-श्रीखरतरगच्छगगनाङ्गणप्रभासनैकभानु - सुविहितचक्रचूडामणि - क्रियोद्धारक - श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य - श्रीमत्केशरमुनिजीगणिवर सङ्कलितस्तच्छिष्य-बुद्धिसागरगणिपरिष्कृतश्च श्रीवर्द्धमानखामिनः कल्याणकपरामर्शः प्रणम्य श्रीजिनं वीरं, शासनाधीश्वरं मुदा । कल्याणकपरामर्श: x, क्रियते शास्त्रयुक्तितः ॥ १॥ वन्दे वीरं गर्भरूपं, सदा कल्याणरूपकम् । मन्यन्ते भाग्यवन्तः ! किं, ह्यकल्याणकरूपकम् ? ॥ २ ॥ जल्पनमेतदकल्याणकवादिनां यदुत - "करोषि श्रीमहावीरे, कथं कल्याणकानि षट् । यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः ॥ १ ॥” इति गुरुतत्त्वप्रदीपे । "अकल्याणकभूतस्य गर्भापहारस्य " इति कल्पकिरणावल्यां । "नीचैर्गोत्रविपाकरूपस्य अति निन्द्यस्य x वीरजिनस्य कल्याणकानां पञ्चकं पङ्कं देति परामर्शो विचारः । न च वाच्यं च्यवनादीनां षण्णां कल्याणकत्वेन व्यावर्णनमनागमिकं, “जो भगवता उसभसामिणा सेसतित्थगरेहि अ वद्धमाणसामिणो चवणाईणं छण्हं वत्थूणं कालो दिट्ठो जातो बागरिओ अ" इति पर्युषणाकल्प - दशाश्रुतस्कन्धचूण्योर्वाक्यस्थ तथा “हस्त उत्तरो यासां उत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु - गर्भाधान-संहरण जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषु संवृत्ताः, अतः पञ्चहस्तोत्तरो भगवान भू" दित्याचाराङ्गवृत्तिवाक्यस्य च बाधकत्वादिति यतो न व्यभिचरति कल्याणकत्वं वस्तुस्थाने, यथा शिंशपावं वनस्पतिवृक्षौ, कल्याणकाकल्याणकयोरुभयत्रापि वस्तुस्थानयोर्घटमानत्वात् । For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12