Book Title: Kalyanak Paramarsh Author(s): Buddhisagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणक-I परामर्शः च्यवनगर्भादिनामान्त राणि, गर्भापहारशब्दार्थः आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचितं" इति कल्पसुबोधिकायां । “गर्भापहारोऽशुभः" इति चक० सु० टिप्पण्यां। । परामर्शोच-विप्रनीचकुलाश्चर्य-गर्भापहारकारणैः। गर्भाधानमकल्याणं, गर्भकल्याणकं कथम् ? ॥३॥ आश्चर्यमपि कल्याणं, श्रीमल्लिवीरयोर्मतम् । नीचनिन्द्याशुभैाक्य-रकल्याणं कथं भवेत् ॥४॥ कल्याणं च्यवनं प्रोक्तं, गर्भकल्याणकं तथा । अवतरणकल्याण-मकल्याणं कथं भवेत् ? ॥५॥ यत उक्तं-"गब्भे जम्मे य तहा, णिक्खमणे चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायचा ॥ ३१॥" इति पञ्चाशके । तथा "अवयरणजम्मणिक्खमणणाणणिवाणपंचकल्लाणे । तित्थयराणं नियमा, करंति सेसेसु खित्तेसु ॥१॥" इति जिनभद्रीयबृहत्सङ्ग्रहण्यां । नीचकुलेऽवतीर्णश्चे-द्वीरः कल्याणको मतः। उच्चकुलागतो वीरः, किमकल्याणको मतः ? ॥ ६॥ चेत्क्षत्रियकुलायातो, गर्भः कल्याणको मतः। विप्रकुलेऽवतीर्णो हि, किमकल्याणको मतः ॥७॥ देवानन्दोदरे गर्भो, यथा कल्याणरूपकः। तथैव त्रिशलाकुक्षौ, गर्भः कल्याणको मतः ॥८॥ यावद्गर्भतयोत्पत्तिं, च्युत्वा गत्यन्तराद्यथा। बुधैश्यवनकल्याणं, मतं गणधरादिभिः॥९॥ तथैव-हरणं वाऽपहारस्तत्-त्रिशलोदरधारणम् । गर्भधारणकल्याणं, तत्त्वकल्याणकं कथम् ? ॥१०॥ तावदपहृतो गर्भ-त्रिशलाकुक्षिसंहृतः। अतो गर्भापहारो हि, श्रेय:कल्याणसूचकः ॥११॥"गर्भस्योदरसत्त्वस्य”, इति स्थानाङ्गवृत्तितः। हरणमुदरान्तर-सक्रामणं तु श्रेयसे ॥१२॥ उक्तं च कल्पसूत्रे शक्रविचारणायां-"त सेयं खलु मम वि समणं भगवं महावीर" इत्यादि यावत् "तिसलाए खत्तियाx“गर्भस्य-(स्त्रीकुक्षिसमुद्भूतसत्त्वस्य) श्रीवर्द्धमानरूपस्य हरणं-(अन्यस्त्री) निशलाकुक्षौ सङ्कामणं गर्भहरणं" इति (प्रव० सारो० वृ०) कल्पदीपिकायां च । ॥१ For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12