Book Title: Kalyanak Paramarsh
Author(s): Buddhisagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XOXOXOXOXOXOXOXOXOXOXOXO
सर्वेषामपि निश्चितः । तीर्थङ्करा हि सर्वेऽपि, जायन्ते पुरुषोत्तमाः॥४६॥ परमेकोनविंशो हि, तीर्थकृन्मल्लिनामकः । स्त्रीरूपेण समुत्पन्नः, कुम्भराजस्य सद्मनि ॥ ४७॥ कार्य न सुतरां तस्य, ह्यकल्याणत्ववादिभिः।
कल्याणकेषु सर्वेषु, कल्याणत्वप्ररूपणम् ॥ ४८ ॥ नाश्चर्यस्थानवस्तुत्वं, कल्याणकत्वबाधकम् । कल्याणं *'जिनचन्द्र'स्य, गर्भाधान द्विके स्थितम् ॥४९॥ अन्यैरप्युक्तं-"सिद्धार्थराजाङ्गजदेवराज!, कल्याणकैः षभिरिति स्तुतस्त्वं ।
तथा विधेह्यान्तरवैरिषद, यथा जयाम्याशु तव प्रसादात् ॥१॥" इति जयतिलकसूरिकृते सुलसाचरित्रे षष्ठसर्गे, तथा "आपाढे सितषष्ठी १, त्रयोदशी चाश्विने २ सिता चैत्रे ३। मार्गे दशमी ४ सितवै-शाखे सा ५ कार्तिके च कुहूः ६॥१॥ वीरस्य षट्कल्याणकदिनानी"ति जयसुन्दरसूरिकृते कल्पान्तर्वाच्ये ४ । “यो कालसमयौ भगवता ऋषभदेवस्वामिना अन्यैश्च तीर्थङ्करैः श्रीवर्द्धमानस्य पण्णां च्यवनादीनां कल्याणकानां हेतुत्वेन कथिती, तावेवेति ब्रूमः-'पंचहत्थुत्तरे होत्थेति हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा, हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तराफाल्गुन्यः, बहुवचनं बहुकल्याणकापेक्षं, पञ्चसु-च्यवन १ गर्भापहार २ जन्म ३ दीक्षा ४ ज्ञान ५ कल्याणकेषु हस्तोत्तरा यस्य सः तथा, निर्वाणस्य स्वातौ जातत्वात्" इति तपागच्छीयकुलमण्डनसूरयः खीयकल्पावचूरी । इत्यलम्प्रसङ्गेन, कल्याणकानि षडेव वीरस्येत्यागमज्ञाः "शिवमस्तु०"।
x “संवत् १५३८ वर्षे आषाढसुदि १५ सोमे श्रीतपागच्छनायकश्श्रीपूज्यभ० श्रीविजयरबसूरिशिष्येण" इत्युल्लेखान्विताऽस्ति प्रतिः सि० आ० क० सत्के चित्कोषै।
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12