Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 11
________________ पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः ५ ॥ 'वय'त्ति व्रतानि-महाव्रतानि, तानि च द्वाविंशतिजिनसाधूनां चत्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगासंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव, प्रथमचरमजिनसाधूनांतु तथाज्ञानाभावात् पञ्च व्रतानि इति षष्ठः६॥ 'जिट्ट'त्ति ज्येष्ठोः-रत्नाधिकः स एव कल्पो,वृद्धलघुत्वव्यवहार इत्यर्थः,तत्र आद्यान्तिमजिनयतीनां उपस्थापनातःप्रारभ्य दीक्षापर्यायगणनामध्यमजिनयतीनांच निरतिचारचारित्रत्वादीक्षादिनादेव। अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिकपुत्रादीनां सार्द्ध गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययनयोगोदहनादिभिर्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किय| द्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात्, अथ पुत्रादीनां समज्ञत्वेन अन्येषां निष्पज्ञत्वेन महदन्तरंतदास पित्रादिरेवं प्रतिबोध्या-भो महाभागसप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुर्भविष्यति, तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितःस यदि अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः ७॥'पडिक्कमणे'त्ति अतिचारो भवतु मा वा, परं श्रीऋषभवीरसाधूनां उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि दैवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 398