Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 16
________________ कल्प. सुबोन्या० १ वसतिगुणा: ॥५॥ KESAKARATRAKAR ज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः ?, अनवयोधात्, तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव एव, मैवं, ऋजुजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मः, तथा बक्रजडानां अपि वीरजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न बक्तव्यं, तथा वचने हि महान् दोषा, तदुक्तम्-'जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाई । सो समणसंघबज्झो कायब्वो समणसंघेणं ॥१॥" तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु | तन्मध्येऽपि विहर्तु कल्पते, तद्यथा-अशिवे १ भोजनाप्राप्तौ २, राज ३ रोग ४ पराभवे । चतुर्मासकमध्येऽपि, विहर्तु कल्पतेऽन्यतः॥१॥ असति स्थण्डिले ५ जीवाकुले ६ च वसतौ ७ तथा । कुन्थु ८ ष्वग्नौ ९ तथा सर्प १०, विहर्तु कल्पतेऽन्यतः ॥२॥ तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्तिक्यास्तिष्ठन्ति मुनिसत्तमाः ॥१॥' एवं अशिवादिदोषाभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, तच क्षेत्रं त्रिविधं-जघन्यं १ मध्यमं २ उत्कृष्टं ३ च, तत्र चतुर्गुणयुक्तं जघन्यं, ते चामी-समिई विहारभूमी वियारभूमी य सुलहसज्झाओ। सुलहा भिक्खा जाहे जहन्नयं वासखित्तं तु॥१॥' यत्र विहारभूमिः सुलभा-आसन्नो जिनप्रासाद इत्यर्थः १ यत्र स्थण्डिलं शुद्धं निर्जीवं अनालोकं । यो भणति नास्ति धर्मः न च सामायिकं नैव च ब्रतानि । स श्रमणसंघबामा कर्तव्यः श्रमणसंपेन ॥१॥ 44+क

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 398