SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोन्या० १ वसतिगुणा: ॥५॥ KESAKARATRAKAR ज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः ?, अनवयोधात्, तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव एव, मैवं, ऋजुजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मः, तथा बक्रजडानां अपि वीरजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न बक्तव्यं, तथा वचने हि महान् दोषा, तदुक्तम्-'जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाई । सो समणसंघबज्झो कायब्वो समणसंघेणं ॥१॥" तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु | तन्मध्येऽपि विहर्तु कल्पते, तद्यथा-अशिवे १ भोजनाप्राप्तौ २, राज ३ रोग ४ पराभवे । चतुर्मासकमध्येऽपि, विहर्तु कल्पतेऽन्यतः॥१॥ असति स्थण्डिले ५ जीवाकुले ६ च वसतौ ७ तथा । कुन्थु ८ ष्वग्नौ ९ तथा सर्प १०, विहर्तु कल्पतेऽन्यतः ॥२॥ तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्तिक्यास्तिष्ठन्ति मुनिसत्तमाः ॥१॥' एवं अशिवादिदोषाभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, तच क्षेत्रं त्रिविधं-जघन्यं १ मध्यमं २ उत्कृष्टं ३ च, तत्र चतुर्गुणयुक्तं जघन्यं, ते चामी-समिई विहारभूमी वियारभूमी य सुलहसज्झाओ। सुलहा भिक्खा जाहे जहन्नयं वासखित्तं तु॥१॥' यत्र विहारभूमिः सुलभा-आसन्नो जिनप्रासाद इत्यर्थः १ यत्र स्थण्डिलं शुद्धं निर्जीवं अनालोकं । यो भणति नास्ति धर्मः न च सामायिकं नैव च ब्रतानि । स श्रमणसंघबामा कर्तव्यः श्रमणसंपेन ॥१॥ 44+क
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy