________________
*4ACA4
SAECECTECIAC-AIL
च२ यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता ३ यत्र भिक्षा च सुलभा ४, त्रयोदशगुणं उत्कृष्टं, ते चामी-चिक्खिल्ल १ पाण २ थंडिल्ल ३ वसही ४ गोरस ५ जणाउले ६ विजे७। ओसह ८ निचया ९ हिवई |१० पासंडा ११ भिक्ख १२ सज्झाए १३ ॥१॥ यत्र भूयान् कदमो न भवति १ यत्र बहवः समूच्छिमाः | पाणिनो न भवन्ति २ यत्र स्थण्डिल निर्दोष भवति ३ यत्र वसतिः स्त्रीसंसर्गादिरहिता ४ यत्र गोरसं प्रचुरं ५ यत्र जनसमवायो महान् भद्रकश्च ६ यत्र वैद्याश्च भद्रकाः ७ यत्र औषधानि सुलभानि ८ यत्र गृहस्थगृहा: सकुटुम्बा धनधान्यादिपूर्णाश्च ९ यत्र राजा भद्रकः१० यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् ११ यत्र भिक्षा सुलभा १२ यत्र स्वाध्यायः शुद्धपति १३ 'चउग्गुणोववेयं तु, खित्त होइ जहन्नयं । तेरसगुणमुक्कोस, दुहं मज्झमि मज्झिमयं ॥१॥ पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच न्यूनं द्वादशगुणपर्यन्तं मध्यम क्षेत्रं, एवं च उत्कृष्ट क्षेत्रे तदप्राप्तौ मध्यमे तस्यापि अप्राप्तो जघन्ये क्षेत्रे साम्प्रतं च गुर्वाविष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः कर्तव्यः॥ . | अयं च दशप्रकारोऽपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयौषधवत् हितकारको भवति, तथाहिकेनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थ त्रयो वैद्या आकारिताः, तत्र प्रथमो वैद्य आहमदीयं औषधं रोगसद्भावे रोगं हन्ति, रोगाभावे च दोषं प्रकटयति, राज्ञोक्तं-सुप्तसोत्थापनतुल्येन
१ चतुर्गुणोपपेतं तु क्षेत्रं भवति जघन्यकं । त्रयोदशगुणमुत्कर्ष योर्मध्ये मध्यमकं ॥1॥
949