________________
भविष्यन्ति ? इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनां इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयं - तत्र केचिद्वरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगताः, गुरुभिः पृष्ठा निषिद्धाश्च नटावलोकनं प्रति, पुनरन्यदा नदीं नृत्यन्तीं विलोक्य आगताः, गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुबाट पृष्टाश्च सत्यं प्रोचुः, गुरुभिरुपालम्भे च दत्ते संमुखं गुरूनेव उपालब्धवन्तः यद् अस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतो ?, भवतां एव अयं दोषः अस्माभिः किं ज्ञायते ?, इति प्रथमो दृष्टान्तः । तथा कश्चिद्वयवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं वक्रतया मनसि दधार, अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य कपाटं दत्त्वा स्थितः आगतेषु च पित्रादिषु द्वारोद्घाटनार्थं बहुशब्दकरणेऽपि न वक्ति न चोद्घाटयति, भिन्युल्लङ्घनेन मध्येप्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास - भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः ॥ अधाजितादियतीनां ऋजुप्राज्ञत्वे दृष्टान्तः - यथा केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणागताः, गुरुभिः पृष्टा यथास्थितं अकथयन्, गुरुभिश्च निषिद्धाः, अथ अन्यदा ते बहिर्गताः, नटीं नृत्यन्तीं विलोक्य प्राज्ञत्वात विचारयामासुः - यद् अस्माकं रागहेतुत्वाद् गुरुभिर्नटनिरीक्षणं निषिद्धं, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्वैवेति विचार्य नदीं नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्रा