Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 14
________________ % कल्प.सुबोव्या०१ C4% ऋजुजडादि दृष्टान्ताः ॥४॥ 84- सुविसुझो सुहणुपालो अ॥१॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायब्वा । बकजडा पुण चरिमा | उज्जुपणा मज्झिमा भणिया ॥२॥] तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात, वीरतीर्थसाधनांच धर्मस्य अवबोध पालनं च दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनांतु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकर, ऋजुप्राज्ञत्वात्, तेन आचारो द्विधा कृतः। अत्र च दृष्टान्ताःप्रदश्यन्तेंयथा केचित् प्रथमजिनयतयो बहिर्भमेगुरुसमीपं आगताः पृष्टाश्च गुरुभिः-भो मुनयो! भवतां इयती वेला क्व जाता ?, तैरुक्तं-खामिन् ! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततो गुरुभिः कथितं-इदं नढविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगताः, तथैव गुरुभिः पृष्टाः मोचुः-प्रभो! वयं नटी नृत्यन्तीं निरीक्षितुं स्थिताः,तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो | निषिद्धो, नटे निषेधे च नटी सुतरां निषिद्धैव, ततस्तविज्ञप्तं स्वामिन् ! इदं अस्माभिर्न ज्ञातं, अथैवं न करि|ष्यामः, अत्र च जडत्वान्नटे निषिद्ध नटी निषिद्धैवेति तैन ज्ञातं, ऋजुत्वाच्च सरलं उत्तरं दत्तं इति प्रथमः। | अत्र द्वितीयोऽपि दृष्टान्तः-यथा कोऽपि कुङ्कणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो, गुरुभिः पृष्टः-एतावद्दीघे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच-स्वामिन् ! जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्टः आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यानि बहन्यभूवन, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याभवनेन वराकाः कथं 4- SAROKAARAKASAMAC4 4-%*- *-%

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 398