Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 13
________________ दिनमानः उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनञ्चातुर्मासिक एव, सालम्बनस्तु कारणिक इत्यथः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे षाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्धयागृहिज्ञाताज्ञातादिविस्तरस्तु नात्र लिखितः, साम्प्रतं सङ्घाज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच्च, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिमजिनयोस्तीर्थे नियतः, शेषाणां तु अनियतः, यतस्ते हि दोषाभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति, दोषसद्भावे तु न मासं अपि, एवं महाविदेद्देऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः ॥१०॥ एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु आचेलक्यौ १ देशिक २प्रतिक्रमण ३ राजपिण्ड ४ मास ५ पर्युषणा ६ लक्षणाः षट् कल्पा अनियताः, शेषास्तु शय्यातर १ चतुर्व्रत२ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियतानियतविभागः ॥ ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिन साधूनां द्वाविंशतिजिनसाधूनां च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाणं दुव्विसोज्झो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं १ पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपालश्च ॥ १ ॥ ऋजुजडा: पूर्व खलु, नटादिज्ञाताद् भवन्ति ज्ञातम्याः । वक्रजडाः पुनः चरमाः, ऋजुप्राशा मध्यमा भणिताः ॥ २ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 398