________________
दिनमानः उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनञ्चातुर्मासिक एव, सालम्बनस्तु कारणिक इत्यथः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे षाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्धयागृहिज्ञाताज्ञातादिविस्तरस्तु नात्र लिखितः, साम्प्रतं सङ्घाज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच्च, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिमजिनयोस्तीर्थे नियतः, शेषाणां तु अनियतः, यतस्ते हि दोषाभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति, दोषसद्भावे तु न मासं अपि, एवं महाविदेद्देऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः ॥१०॥ एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु आचेलक्यौ १ देशिक २प्रतिक्रमण ३ राजपिण्ड ४ मास ५ पर्युषणा ६ लक्षणाः षट् कल्पा अनियताः, शेषास्तु शय्यातर १ चतुर्व्रत२ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियतानियतविभागः ॥
ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिन साधूनां द्वाविंशतिजिनसाधूनां च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाणं दुव्विसोज्झो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं
१ पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपालश्च ॥ १ ॥ ऋजुजडा: पूर्व खलु, नटादिज्ञाताद् भवन्ति ज्ञातम्याः । वक्रजडाः पुनः चरमाः, ऋजुप्राशा मध्यमा भणिताः ॥ २ ॥