________________
कल्पदशक
कल्प.सुबोव्या० १ ॥३॥
॥३॥
SACH BAMACHAR
सांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे-'देसिय१राइय २ पक्खिय ३ चउमासिअ४ बच्छरी ५ नामाउ । दुण्हं पण पडिकमणा मज्झिमगाणं तु दो पढमा ॥१॥ तं दुण्ह सय दुकालं इयरार्ण कारणे इउ मुणिणो' इति अष्टमः ॥ 'मास'त्ति आद्यान्त्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाशक्तिरोगादिकारणसद्भावेऽपि शाखापुरपाटककोणकपरावर्तेनापि सत्यापनीयैव, परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्वप्रमुखबहुदोषसंभवात् , मध्यमजिनयतीनां तु ऋजुपाज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः, ते हि देशोनां पूर्वकोटीं यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति, इति नवमः ९॥ 'पज्जोसणाकप्पेत्ति परि-सामस्त्येन उषणा-वसनं पर्युषणा, तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिकं पर्व च द्वयं अपि कथ्यते, तत्र वार्षिकं पर्व भाद्रपदसितपश्चम्यां कालकसूरेरनन्तरं चतुर्थ्यामेवेति, सामस्त्येन वसनलक्षणश्च पर्युषणाकल्पो द्विविधः-सालम्बनो निरालम्बनश्च, तत्र निरालम्बनः कारणाभाववान् इत्यर्थः, स द्विविधोजघन्य उत्कृष्टश्च,तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति७०
१ देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकनामानि । द्वयोः [प्रथमान्तितीर्थकरतीर्थयोः] पञ्च प्रतिक्रमणानि, मध्यमकानां तु हे प्रथमे ॥ १॥ तत् द्वयोः सदोभयकाल इतरेषां कारणे ॥ इतो मुनयः । २ चन्द्रसंवत्सरापेक्षयेदमिति कश्चिन्मुग्धः, शाखापेक्षया पोषाषाढयोरेव वृद्धे, किंच-अधिकमासप्रमाणीकरणे पौषवृद्धौ माघे आषाढवृद्धी चायापाढे चातुर्मासिककरणापत्तिः,तस्याः तत्तन्मासप्रतिबद्धत्वेऽत्रापि समानं समाधानं ।
CAR.C
-AAM