SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः ५ ॥ 'वय'त्ति व्रतानि-महाव्रतानि, तानि च द्वाविंशतिजिनसाधूनां चत्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगासंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव, प्रथमचरमजिनसाधूनांतु तथाज्ञानाभावात् पञ्च व्रतानि इति षष्ठः६॥ 'जिट्ट'त्ति ज्येष्ठोः-रत्नाधिकः स एव कल्पो,वृद्धलघुत्वव्यवहार इत्यर्थः,तत्र आद्यान्तिमजिनयतीनां उपस्थापनातःप्रारभ्य दीक्षापर्यायगणनामध्यमजिनयतीनांच निरतिचारचारित्रत्वादीक्षादिनादेव। अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिकपुत्रादीनां सार्द्ध गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययनयोगोदहनादिभिर्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किय| द्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात्, अथ पुत्रादीनां समज्ञत्वेन अन्येषां निष्पज्ञत्वेन महदन्तरंतदास पित्रादिरेवं प्रतिबोध्या-भो महाभागसप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुर्भविष्यति, तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितःस यदि अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः ७॥'पडिक्कमणे'त्ति अतिचारो भवतु मा वा, परं श्रीऋषभवीरसाधूनां उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि दैवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy