SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥ २॥ सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौर्लभ्यादिबहुदोषसंभवात् । अथ यदि साधवः समग्रां रात्रिं जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, तथा तृणडगलभस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ॥ ३ ॥ " 'रायपिंड'न्ति सेनापति १ पुरोहित २ श्रेष्ठि ३ अमात्य ४ सार्थवाह ५ लक्षणैः पञ्चभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य पिण्ड ! - अशनादिचतुष्कं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ रजोहरणं ८ चेति | अष्टविधः प्रथमचरमजिन साधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य अपशकुन बुद्धया शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्वमिन्दादिदोषसंभवाच्च निषिद्धेः, द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ॥ ४ ॥ 'किइकम्म'त्ति कृतिकर्म - वंदनकं, तद् द्विधा - अभ्युत्थानं द्वादशावर्त च तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षा पर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः, १ राज्ञामतिथिसंविभागव्रताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावकश्राविकाष्णामतिथितयोमास्वातिभिर्व्याख्यानात् । कल्पभेदाः ॥ २ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy