Book Title: Kalpsutram Author(s): Vinayvijay, Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha View full book textPage 9
________________ C%DA ठवइ सव्वजिणखंघे । वीरस्स परिसमहिअं सयावि सेसाण तस्स ठिई॥१॥ इति सप्ततिशतस्थानकवचनाचेति ज्ञेयं । साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन सचेलकत्वमेव केषाश्चिच श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इत्यनियतस्तेषामयं कल्पः, श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेतजीणंप्रायवस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेद्, उच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि-कृतपोतिका नदीमुत्तरन्तो वदन्ति-अस्माभिर्नग्नीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्च | वदन्ति-शीघं अस्माकं वखं देहि वयं नग्नाः स्म इति, एवं साधूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्रथमः॥१॥ तथा 'उद्देसित्ति औदेशिक-आधार्मिकं इत्यर्थः, साधुनिमित्तं कृत अशनपानखादिमस्वादिमवस्त्रपात्र| वसतिप्रमुख, तच्च प्रथमचरमजिनतीर्थे एकं साधु एकं साधुसमुदायं एक उपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां | साध्वादीनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्यं, अन्येषां तु कल्पते इति द्वितीयः.॥२॥ ... तथा 'सिज्जायर'त्ति शय्यातरो-वसतिस्वामी तस्य पिण्डः-अशन १ पान २ खादिम ३ स्वादिम ४ वस्त्र५पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिपलक १० नखरदन ११ कर्णशोधनक १२ लक्षणो द्वादशप्रकार: १ पात्रलेपवत् संयमशुद्धथै वर्णपरावर्तोऽधुना। %A9 %Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 398