Book Title: Kalpsutram
Author(s): Vinayvijay,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
कल्प. सुबो
व्या० १
॥ २॥
सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौर्लभ्यादिबहुदोषसंभवात् । अथ यदि साधवः समग्रां रात्रिं जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, तथा तृणडगलभस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ॥ ३ ॥
"
'रायपिंड'न्ति सेनापति १ पुरोहित २ श्रेष्ठि ३ अमात्य ४ सार्थवाह ५ लक्षणैः पञ्चभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य पिण्ड ! - अशनादिचतुष्कं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ रजोहरणं ८ चेति | अष्टविधः प्रथमचरमजिन साधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य अपशकुन बुद्धया शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्वमिन्दादिदोषसंभवाच्च निषिद्धेः, द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ॥ ४ ॥
'किइकम्म'त्ति कृतिकर्म - वंदनकं, तद् द्विधा - अभ्युत्थानं द्वादशावर्त च तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षा पर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः,
१ राज्ञामतिथिसंविभागव्रताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावकश्राविकाष्णामतिथितयोमास्वातिभिर्व्याख्यानात् ।
कल्पभेदाः ॥ २ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 398