Book Title: Kalpasutra Kalpalati Tika Author(s): Bhadrabahuswami, Samaysundar Gani, Publisher: Jinduttasuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निवेदनम् । पदवाक्यप्रमाण-पारावारपारीण-कविकुलकैरवोपाध्याय-श्रीसमयसुन्दरगणिविरचितकल्पलताख्यव्याख्यासमलकृतं श्रीभद्रबाहुस्वामिप्रणीतं श्रीकल्पसूत्र विद्वज्जनमनोविनोदाय प्रकाश्यते । अस्य मूलमन्थस्य प्रणेतारः पंचमश्रुतकेवलिनः श्रीभद्रबाहुस्वामिन इति आबालवृद्धेभ्यः सुप्रसिद्धमिति तद्विषयेऽत्र नाधिकं निवेद्यते । व्याख्याकर्तारः श्रीसमयसुन्दरगणिनस्तु केषां विनेयावतंसकाः ? कदा च भूमण्डलमिदमलनकुः ? इत्यादि जिज्ञासापरिपूर्त्यर्थं स्वकीयगुरुपरम्परापरिचयं वितन्वद्भिः स्वयमेव अन्यस्याऽस्य प्रान्ते विनिवेशितानि तेषां पद्यान्येवाऽत्र यथावत् प्रत्युद्भियन्ते "तद्गच्छे त्वभिधानतः 'खरतरे' यैः 'स्तम्भना' धीश्वरो, भूमध्यात् प्रकटीकृतः पुनरपि स्नानोदकागुग्गता । स्थानाङ्गादिनवाङ्गसूत्रविवृतिर्नव्याऽतिभव्या कृता । श्रीमन्तोऽभयदेवसूरिगुरवो जाता जगद्विश्रुताः ।। ३ ।। यो योगिनीभ्यो जगृहे ददौ च, वरान् वरान् जापदनेकविद्यः । पञ्चापि पीरान स्ववशीचकार, युगप्रधानो जिनदत्तसूरिः ॥४॥ मुनिरपि यस्मिन् गच्छे बभूव जिनकुशलनामसूरिवरः । यस्य स्तूपनिवेशाः सुयशःपुञ्जा इवाभान्ति ॥५॥ तत्पट्टानुक्रमतः, श्रीमजिनचन्द्रसूरिनामानः । जाता युगप्रधानाः, 'दिल्ली पतिपातिसाहिकृताः ॥ ६ ॥ अकबररञ्जनपूर्व द्वादशसूबेषु सर्वदेशेषु । स्फुटतरममारिपटहः, प्रवादितो यैश्च सूरिवरैः ॥ ७॥ पूज्यपादानां चरितं वि० सं० १२९५ वर्षे सुमतिगणिविरचितगणधरसार्धशतकवृहद्वृत्तौ विलोकनीयं जिज्ञासुभिः । For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 628