________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निवेदनम् । पदवाक्यप्रमाण-पारावारपारीण-कविकुलकैरवोपाध्याय-श्रीसमयसुन्दरगणिविरचितकल्पलताख्यव्याख्यासमलकृतं श्रीभद्रबाहुस्वामिप्रणीतं श्रीकल्पसूत्र विद्वज्जनमनोविनोदाय प्रकाश्यते ।
अस्य मूलमन्थस्य प्रणेतारः पंचमश्रुतकेवलिनः श्रीभद्रबाहुस्वामिन इति आबालवृद्धेभ्यः सुप्रसिद्धमिति तद्विषयेऽत्र नाधिकं निवेद्यते ।
व्याख्याकर्तारः श्रीसमयसुन्दरगणिनस्तु केषां विनेयावतंसकाः ? कदा च भूमण्डलमिदमलनकुः ? इत्यादि जिज्ञासापरिपूर्त्यर्थं स्वकीयगुरुपरम्परापरिचयं वितन्वद्भिः स्वयमेव अन्यस्याऽस्य प्रान्ते विनिवेशितानि तेषां पद्यान्येवाऽत्र यथावत् प्रत्युद्भियन्ते
"तद्गच्छे त्वभिधानतः 'खरतरे' यैः 'स्तम्भना' धीश्वरो, भूमध्यात् प्रकटीकृतः पुनरपि स्नानोदकागुग्गता । स्थानाङ्गादिनवाङ्गसूत्रविवृतिर्नव्याऽतिभव्या कृता । श्रीमन्तोऽभयदेवसूरिगुरवो जाता जगद्विश्रुताः ।। ३ ।। यो योगिनीभ्यो जगृहे ददौ च, वरान् वरान् जापदनेकविद्यः । पञ्चापि पीरान स्ववशीचकार, युगप्रधानो जिनदत्तसूरिः ॥४॥ मुनिरपि यस्मिन् गच्छे बभूव जिनकुशलनामसूरिवरः । यस्य स्तूपनिवेशाः सुयशःपुञ्जा इवाभान्ति ॥५॥ तत्पट्टानुक्रमतः, श्रीमजिनचन्द्रसूरिनामानः । जाता युगप्रधानाः, 'दिल्ली पतिपातिसाहिकृताः ॥ ६ ॥ अकबररञ्जनपूर्व द्वादशसूबेषु सर्वदेशेषु । स्फुटतरममारिपटहः, प्रवादितो यैश्च सूरिवरैः ॥ ७॥ पूज्यपादानां चरितं वि० सं० १२९५ वर्षे सुमतिगणिविरचितगणधरसार्धशतकवृहद्वृत्तौ विलोकनीयं जिज्ञासुभिः ।
For Private and Personal Use Only