Book Title: Jivajivabhigamsutra Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५४८
जीवाभिगमसूत्र भवग्रहणं समयाधिकम्-उत्कर्पण वनस्पतिकालः। देवस्य खल्लु भदन्त ! यथा नैरयिकस्य । प्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं नास्ति अप्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! प्रथमसमयनैरयिकाणां प्रथमसमयतिर्यग्योनिकानां-प्रथमसमयमनुष्याणां-प्रथमसमयदेवानां-प्रथमसमयसिद्धानां च कतरेकतरेभ्योऽल्पा वा-बहुका वा-तुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयसिद्धाः प्रथमसमयमनुप्याः असंख्येयगुणा प्रथमसमयनैरयिका असंख्येयगुणाः प्रथमसमयदेवा असंख्येयगुणाः प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः एतेषां खलु भदन्त ! अप्रथमसमयनैरयिकाणां यावत् अप्रथमसमयसिद्धानां च कतरे कतरेभ्यः गौतम ! सर्वस्तोक अप्रथममनुष्याः अप्रथमसमयनैरयिका असंख्येयगुणाः अप्रथमसमयदेवा असंख्येयगुणाः अप्रथमसमयसिद्धा अनन्तगुणाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः ।२। एतेषां खलु भद त ! प्रथमसमयनैरयिकाणाम् अप्रथमसमयनैरयिकाणां च कतरे कतरेभ्यः ? गोयमा ! सर्वस्तोकाप्रथमसमयनैरयिकाः अप्रथमसमयनैरयिका असंख्येयगुणाः ।३। एतेषां खलु भदन्त ! प्रथमसमयतिर्यग्योनिकानामप्रथमसमयतिर्यग्योनिकानां च कतरेकतरेभ्यो ?,गौतम! सर्वस्तोकाःप्रथमसमयतिर्यग्योनिकाः-अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः ।।। एतेषां खल भदन्त ! प्रथमसमयमनुष्याणामप्रथमसमयमनुष्याणां च कतरेकतरेभ्यो ?, गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः-अप्रथमसमयमनुष्या असंख्येयगुणाः । यथा मनुष्यास्तथा देवा अपि ।।६। एतेषां खल भदन्त ! प्रथमसमयसिद्धानाम्-अप्रथमसमयसिद्धानां च कतरे कतरेभ्यो.ऽल्पा वा, वहुका वा तुल्या वा विशेषाधिका वा ?, गौतम ! सर्वस्तोकाः प्रथमसमयसिद्धाः अप्रथमसमयसिद्धा अनन्तगुणाः । एतेषां खलु भदन्त ! प्रथमसमय नैरयिकाणामप्रथमसमयनैरयिकाणां प्रथमसयतिर्यग्योनिकानाम् अप्रथमसमयतिर्यग्योनिकानाम् प्रथमसमयमनुष्याणामप्रथमसमयमनुष्याणां प्रथमसमयदेवानामप्रथमसमयदेवानां प्रथमसमयसिद्धानामप्रथमसमयसिद्धानां च कतरेकतरेभ्योऽल्पा वा-वहुका वा-तुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयसिद्धाः प्रथमसमयमनुष्या असंख्येयगुणा:-अप्रथमसमय मनुष्या असंख्येयगुणाः प्रथमसमयनैरयिका असंख्येयगुणाः प्रथमसमयदेवा असंख्येयगुणाः प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः, अप्रथमसमयनैरयिका असंख्येयगुणाः अप्रथमसमयदेवा असंख्येयगुणाः, अप्रथमसमयसिद्धा अनन्तगुणाः, अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, त एते दश विधाः सर्वजीवाः प्रज्ञप्ताः । सोऽयं सर्वजीवाभिगमः । इति जीवाभिगमसूत्रं समाप्तम् सू० ॥१५॥

Page Navigation
1 ... 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588