Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ प्रस्तावना. 0292eoooooooooo श्रीजम्यू दीपः स रसमय एष परामपेक्षं, प्रोद्दीपयन् विशदयन् स्वपलमाभिः । द्वीपशा गौरैर्गुणैरिह निदर्शितपूर्वसूरिः, श्रीसूरिहीरविजयो विजयाय बोडनु ॥५॥ युग्मम् ॥ न्तिचन्द्री-18 या वृत्तिः यत्मभाषादश्मनोऽपि, मम वाणीरसोऽभवत् । ते श्रीसकलचन्द्राख्या, जीयासुर्षाचकोत्तमाः॥॥ जम्बूद्वीपादिप्रज्ञईष्टशास्त्रानुसारतः। प्रमेयरत्नमञ्जूषा, नाम्ना वृत्तिर्विधीयते ॥७॥ ॥१॥ इह तावद्विकटभवादवीपर्यटनसमापतितशारीराधनेकदुःखादितो देही अकामनिर्जरायोगतः सञ्जातकर्मलाघवस्तजिहासया सकलकर्मक्षयलक्षणं परमपदमाकाङ्क्षति, तच्च परमपुरुषार्थत्वेन सम्यग्ज्ञानादिरलत्रयगोचरपरमपुरुषकारोपार्जनीयं, स चेष्टसाधनताजातीयज्ञानजन्यः, तच्चाप्तोपदेशमूलकं, आप्तश्च परमः केवलालोकावलोकितलोकालोकनिष्कारणपरोपकारैकप्रवृत्त्यनुभूयमानतीर्थकृन्नामका पुरुष एव, तदुपदेशश्च गणधरस्थविरादिभिरङ्गोपाङ्गादिशास्त्रेषु प्रपञ्चितः, तत्र अङ्गानि द्वादश, उपाङ्गान्यपि अङ्गैकदेशप्रपञ्चरूपाणि प्रायः प्रत्यङ्गमेकैकभावात् तावन्त्येव, तत्राङ्गानि आचारागादीनि प्रतीतानि, तेषामुपाङ्गानि क्रमेणामूनि-आचाराङ्गस्यौपपाप्तिकं १ सूत्रकृदङ्गस्य राजप्रश्नीयं २ स्थानाङ्गस्य जीवाभिगमः ३ समवायाङ्गस्य प्रज्ञापना ४ भगवत्याः सूर्यप्रज्ञप्तिः ५ ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्तिः ६ उपासकदशाङ्गस्य चन्द्रप्रज्ञप्तिः ७ अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पञ्चानामप्यङ्गानां निरयावलिकाश्रुतस्कन्धगतक१ पाक्षिकवृत्तौ महाप्रज्ञापनापि, परमेकार्थता द्वयोः (हीर०) २ प्रकीर्णकरूपैति स्थानाहि हीर.) See Jan Education rainelibrary.org For Private Personel Use Only or

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 768