Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वाणुजोजणमणुओगो सुअस्स णियएण जमभिहेएण ।वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥१॥” इति, प्रा. अर्थापेक्षया अणोः-लघोः पश्चाजाततयां वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो-व्यापारस्तत्सम्बन्धो वाऽणुयोगोऽनुयोगो वेति, आह च-"अहेवा जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वावारो जोगो तेणं व संबंधो॥१॥"त्ति, तस्य द्वाराणीव द्वाराणि-प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरदृष्टान्तश्चात्र, यथा हि अकृतद्वारकं पुरमपुरमेव, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च स्यात् , चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञप्त्यध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगम सप्रभेदचतुर्दारानुगतं तु सुखाधिगम कार्यानतिपत्तये च स्यादतः फलेग्रहिरोपन्यास इति ५। तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः-उपक्रमानीतव्याचि
१ अनुयोजनमनुयोगः श्रुतस्य (सूत्रस्य ) निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥२ अथवा यदर्थतः स्तोकपश्चाद्भावाभ्यां सूत्रमणु (अनु) तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥१॥
Jain Education inte
For Private Porn Use Only
Miainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 768